________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [७२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत सूत्रांक
[७२]
दीप अनुक्रम [७२]
45-4585645-45
अगार-गृहं तद्योगादगारा:-गृहिणस्तेषां यश्चरित्रधर्म:-सम्यक्त्वमूलाणुव्रतादिपालनरूपः स तथा, एवमितरोऽपि, नवरमगारं नास्ति येषां तेऽनगाराः-साधव इति । चरित्रधर्मश्च संयमोऽतस्तमेवाह-'दुविहे त्यादि, सह रागेण-अभिष्वङ्गेण मायादिरूपेण यः स सरागः स चासी संयमश्च सरागस्य वा संयम इति वाक्यम् , चीतो-विगतो रागो यस्मात् स चासौ संयमश्च वीतरागस्य वा संयम इति वाक्यमिति । 'सरागे'त्यादि, सूक्ष्मः-असङ्ग्यातकिट्टिकावेदनतः सम्परायः-कषायः सम्परैति-संसरति संसारं जन्तुरनेनेति व्युत्पादनाद्, आह च-कोहाइ संपराओ तेण जुओ संपरीति संसार"ति, स च लोभकषायरूपः उपशमकस्य क्षपकस्य वा यस्य स सूक्ष्मसम्परायः साधुस्तस्य सरागसंयमः, वि-IN | शेषणसमासो वा भणनीय इति, बादराः-स्थूराः सम्परायाः-कषाया यस्य साधोः यस्मिन् वा संयमे स तथा-सूक्ष्म-151 | सम्परायप्राचीनगुणस्थानकेषु, शेष प्राग्वदिति । 'मुहुमें'त्यादिसूत्रद्वये प्रथमाप्रथमसमयादिविभागः केवलज्ञानवदिति ।। |'अहवेत्यादि, सतिश्यमानः संयमः उपशमश्रेण्याः प्रतिषततः, विशुद्धयमानस्तामुपशमश्रेणी वा समारोहत इति । | 'बादरे त्यादिसूत्रद्वयं, बादरसम्परायसरागसंयमस्य प्रथमाप्रथमसमयता संयमप्रतिपत्तिकालापेक्षया चरमाचरमसमयता
तु यदनन्तरं सूक्ष्मसम्परायता असंयतत्वं वा भविष्यति तदपेक्षयेति, 'अहवेत्यादि, प्रतिपाती उपशमकस्यान्यस्य या | अप्रतिपाती क्षपकस्येति । सरागसंयम उक्तोऽतो वीतरागसंयममाह-वीयरागे'त्यादि, उपशान्ताः-प्रदेशतोऽप्यवेद्यमानाः कषाया यस्य यस्मिन् वा स तथा साधुः संयमो वेति-एकादशगुणस्थानवतीति, क्षीणकषायो द्वादशगुणस्थान
१ षष्ठीलोपमपेक्ष्य. २ क्रोधाद्याः संपरायासौर्युतः संपरति संसारम् ।
धर्मानाम् द्विविधा: भेदा:, संयमानाम् द्विविधा: भेदा:,
~115~