________________
आगम (०३)
[भाग-5] "स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [१], मूलं [६४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित....आगमसूत्र - [०३), अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [६४]
दीप अनुक्रम
KASCARROSS -2
SACROCAR
रूपिद्रव्यसाक्षात्करणमिति । तथा 'मणपज्जवनाणं'ति मनसि मनसो वा पर्यवः-परिच्छेदः स एव ज्ञानमथवा मनसः पर्यवाः पर्यायाः पर्यया बा-विशेषाः अवस्था मनःपर्यवादयस्तेषां तेषु वा ज्ञानं मनःपर्यवज्ञानमेवमितरत्रापि, समयक्षेत्रग-1 तसंज्ञिमन्यमानमनोद्रव्यसाक्षात्कारीति । 'केवलनाण'ति केवलम्-असहायं मत्यादिनिरपेक्षत्वादकलकं वा आवरणमलाभावात् सकलं वा-तत्प्रधमतवैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेरसाधारणं वा-अनन्यसदृशत्वादनन्तं वा-ज्ञेयानन्तत्वात् तच तज्ज्ञानं च केवलज्ञानमिति ।। कथं पुनर्द्धर्मादीनि विद्याचरणस्वरूपाणि प्राप्नोतीत्याह-दो ठाणाई'मित्याद्येकादशसूत्री
दो ठाणाई परिवायित्ता आया केवलिपन्नत्तं धम्मं लभेज सवणयाए, त०-आरंभे चेव परिग्गरे घेव, एवं जाव केवलनाणमुप्पाडेजा (सू०६५)। दोहिं ठाणेहिं आया केवलिपन्न धम्म लभेज सवणयाए तं०-सोच व अभिसमेच व जावकेवलनाणं उप्पाडेजा (सू०६६)। सुगमा । धादिलाभ एव पुनः कारणान्तरद्वयमाह-'दोहीत्यादि सुगम, केवलं 'श्रवणतया' श्रवणभावेन, 'सो-| च चेव'त्ति इस्वत्वादि प्राकृतत्वादेव, श्रुत्वा-आकर्ण्य तस्यैवोपादेयतामिति गम्यते, 'अभिसमेत्य' समधिगम्य तामेवावबुध्येत्यर्थः, उक्तं च "सद्धर्मश्रवणादेव, नरो विगतकल्मपः । ज्ञाततत्त्वो महासत्त्वः, परं संवेगमागतः ॥ १॥ धर्मो| पादेयतां ज्ञात्वा, सजातेच्छोऽत्र भावतः । इदं स्वशक्तिमालोच्य, ग्रहणे संप्रवर्त्तते ॥२॥" इति, एवं रोहि बुझेज्जे| त्यादि यावत् केवलनाणं उप्पाडेज'त्ति । केवलज्ञानं च कालविशेषे भवतीति तमाह
[६४]
~103~