________________
आगम
(०२)
प्रत सूत्रांक
[६]
दीप
अनुक्रम [६३८]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [६], निर्युक्ति: [१५७]
| स्थिखा तदेतत्पद्मं प्रासादीयादि प्रतिरूपान्तविशेषणकलापोपेतं स पुरुषः पूर्वदिग्भागव्यवस्थितः 'एव' मिति वक्ष्यमाणनीत्या 'वदेत्' त्रूयात् – 'अहमंसि' त्ति अहमस्मि पुरुषः, किम्भूतः १ - 'कुशलो' हिताहितप्रवृत्तिनिवृत्तिनिपुणः, तथा पावाडीमः पण्डितो धर्मज्ञो देशकालज्ञः क्षेत्रज्ञो 'व्यक्तो' बालभावान्निष्क्रान्तः परिणतबुद्धिः 'मेघावी' वनोत्प्लवनयोरुपायज्ञः, तथा 'अबालो' मध्यमवयाः षोडशवर्षोपरिवर्ती 'मार्गस्थः' सद्भिराचीर्णमार्गव्यवस्थितः तथा सन्मार्गज्ञः, तथा मार्गस्थ या गतिर्गुणजं | वर्तते तथा यत्पराक्रमणं - विवक्षितदेशगमनं तज्जानातीति पराक्रमज्ञः, यदिवा - पराक्रमः - सामर्थ्यं तज्ज्ञोऽहमात्मज्ञ इत्यर्थः, तदेवम्भूतविशेषणकलापोपेतोऽहम् 'एतत्' पूर्वोक्तविशेषणकला पोपेतं पद्मवरपौण्डरीकं पुष्करिणीमध्यदेशावस्थितमहमुत्क्षेप्स्यामीतिकहागतः 'इति' एतत्पूर्वोक्तं तद् प्रतीत्योक्वाऽसौ पुरुषस्त्रां पुष्करिणीमभिमुखं क्रामेत्-अभिक्रामेत् तदभिमुखं गच्छेत् यावया वश्वासौ तदवतरणाभिप्रायेणाभिमुखं क्रामेत्तावत्तावच्च णमिति वाक्यालङ्कारे तस्याः पुष्करिण्या महदगावमुदकं तथा महाब 'सेय:' कर्दमः, ततोऽसौ महाकर्दमोदकाभ्यामाकुलीभूतः प्रहीणः - सद्विवेकेन रहितस्त्यक्ला तीरं सुव्यत्ययाद्वा तीरात्प्रहीणः प्रभ्रष्टः अप्राप्तश्च विवक्षितं पद्मवरपौण्डरीकं तस्याः पुष्करिण्यास्तस्यां वा यः सेयः कर्दमस्तस्मिन्निषण्णो निमन आत्मानमुद्धर्तुमसमर्थः, तस्माच तीरादपि प्रभ्रष्टः, तवस्तीरपद्मयोरन्तराल एवावतिष्ठते, यत एवमत: 'नो हव्वाए'त्ति नार्वाकृतटवर्त्यसी भवति 'नो पाराए'सि नापि विवक्षितप्रदेशप्रात्या पारगमनाय वा समर्थो भवति । एवमसानुभय भ्रष्टो मुक्तमुक्तोलीवदनर्थायैव प्रभवतीत्ययं प्रथमः पुरुषः, पुरुष एव पुरुषजात:- पुरुषजातीय इति ॥ २ ॥ 'अथ' प्रथमपुरुषादनन्तरम् 'अपरो' द्वितीयः पुरुषजातः पुरुष इति । अथवेति वाक्योपन्यासार्थे, अथ-कवित्पुरुषो दक्षिणादिग्भागादागत्य तां पुष्करिणीं तस्याश्च पुष्करिण्यास्तीरे खिता तत्रस्थ पदयति
Education intemational
Forest Use Only
www.janbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र - [ ०२], अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
~76~