SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक -, मूलं [गाथा-६], नियुक्ति: [२००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||६|| दीप Sarass999999092002202tra 'पूर्व पूर्वसिन्काले यन्मौनवतिकत्व या चैकचर्या तच्छद्मस्थत्वा घातिकर्मचतुष्टयक्षयार्थ, साम्प्रतं यन्महाजनपरिवृतस्य धर्मदेशना || विधानं तत्प्रारबद्धभवोपवाहिकर्मचतुष्टयक्षपणोद्यतस्य विशेषतस्तीर्थकरनाम्नो वेदनार्थ अपरासां चोर्गोत्रशुभापुर्नामादीनां शुभप्रकतीनामिति । यदिवा पूर्व साम्प्रतमनागते च काले रागद्वेषरहितत्वादेकत्वभावनानतिक्रमणाचैकत्वमेवानुपचरितं भगवानशेषजनहितं धर्म कथयन् प्रतिसंदधाति, न तस्य पूर्वोत्तरयोरवस्थयोराशंसारहितत्वा दोस्ति, अतो यदुच्यते भवता-पूर्वोत्तरयोरवस्थयोरसाङ्गत्यं तत् प्लवत इति ॥३॥ यादेतद्-धर्मदेशनया प्राणिनां कश्चिदुपकारो भवत्युत नेति ?, भवतीत्याह-'समिच लोय' मित्यादि, सम्यग| यथावस्थित 'लोक' पइद्रव्यात्मकं 'मत्वा' अवगम्य केवलालोकेन परिच्छिद्य त्रस्यन्तीति प्रसा:-त्रसनामकर्मोदया द्वीन्द्रियादयः, तथा तिष्ठन्तीति स्थावरा:-स्थावरनामकर्मोदयात्स्थावराः पृथिव्यादयस्तेषामुभयेषामपि जन्तूनां 'क्षेम' शान्तिः रक्षा तत्करणशील: | क्षेमकरः श्राम्यतीति श्रमणो द्वादशप्रकारतपोनिष्टतदेहः, तथा मा हणत्ति प्रवृत्तिर्यस्थासौ माहनो ब्राह्मणो या स एवंभूतो 'निर्म मो' रागद्वेषरहितः प्राणिहितार्थ न लाभपूजाख्यात्यर्थ धर्ममाचक्षाणोऽपि प्राम्बत् छद्मस्थावस्थायां मौनव्रतिक इव वाक्संयत एव, उत्पन्नदिव्यज्ञानत्वादापागुणदोषविवेकज्ञतया भाषणेनेव गुणावाप्तेः, अनुत्पन्नदिव्यज्ञानस्य तु मौनप्रतिकत्येनेति, तथा देवासुरनरतिर्यक्सहस्रमध्येऽपि व्यवस्थितः पङ्काधारपङ्कजवत्तदोषव्यासङ्गाभावान्ममत्वविरहादाशंसादोपविकलवादेकान्तमेवासी 'सारयति' प्रख्याति नयति साधयतीतियावत् । ननु चैकाकिपरिकरोपेतावस्खयोरस्ति विशेषः, प्रत्यक्षेणैवोपलभ्यमानत्वात् , सत्यम् , अस्ति विशेषो बाद्यतो न त्वान्तरतोपि, दर्शयति-'तथा' प्राग्वदर्चा-लेश्या शुक्लध्यानाख्या यस्य स तथाः, यदिवा अर्चा-शरीरं तच्च प्राग्वद्यस्य स तथाः, तथाहि-असावशोकाद्यष्टप्रातिहार्योपेतोऽपि नोत्सेकं याति, नापि शरीर संस्कारायत्तं विदधाति, स हि अनुक्रम [७४३] ~310~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy