SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||28|| दीप अनुक्रम [७१५] [भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ५ ], उद्देशक [ - ], मूलं [गाथा - ११], निर्युक्तिः [१८३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः वीरिय' मित्यादि, 'सर्वं सर्वत्र विद्यत इतिकृला सांख्याभिप्रायेण सत्त्वरजस्तमोरूपस्य प्रधानस्यैकत्वात्तस्य च सर्वस्यैव कारणखात् | अतः सर्व सर्वात्मकमित्येवं व्यवस्थिते 'सर्वत्र' घटपटादौ अपरस्य - व्यक्तस्य 'वीर्य' शक्तिर्विद्यते, सर्वस्यैव हि व्यक्तस्य प्रधानकार्यलात्कार्यकारणयोकत्वाद्, अतः सर्वस्य सर्वत्र वीर्यमस्तीत्येवं संज्ञां नो निवेशयेत्, तथा 'सर्वे भावोः स्वभावेन, स्वस्वभावव्यवस्थिता' इति प्रतिनियतशक्तिवान सर्वत्र सर्वस्य 'वीर्य' शक्तिरित्येवमपि संज्ञां नो निवेशयेत् । युक्तिवात्र- यत्तावदुच्यते 'सांख्याभि| प्रायेण सर्व सर्वात्मकं देशकालाकारप्रतिबन्धात्तु न समानकालोपलब्धि' रिति, तदयुक्तं, यतो भेदेन सुखदुःखजीवितमरणदूरासन्नम्मूक्ष्मवादरसुरूपकुरूपादिकं संसारवैचित्र्यमध्यक्षेणानुभूयते, न च दृष्टेऽनुपपन्नं नाम, न च सर्व मिथ्येत्यभ्युपपत्तुं युज्यते, यतो दृष्टानिरष्टकल्पना च पापीयसी । किंच सर्वथैक्येऽभ्युपगम्यमाने संसारमोक्षाभावतया कृतनाशोऽकृताभ्यागमश्र बलादापतति, | यचैतत् सत्वरजस्तमसां साम्यावस्था प्रकृतिः प्रधानमित्येतत्सर्वस्यास्य जगतः कारणं तन्निरन्तराः सुहृदः प्रत्येष्यन्ति, निर्युक्तिकलाई, | अपिच-सर्वथा सर्वस्य वस्तुन एकलेऽभ्युपगम्यमाने सत्वरजस्तमसामध्येकलं स्यात्, तद्भेदे च सर्वस्य तद्वदेव भेद इति । तथा यदप्युच्यते- 'सर्वस्य व्यक्तस्य प्रधानकार्यलात्सत्कार्यवादाच्च मयूराण्डकरणे चक्षुपिच्छादीनां सतामेवोत्पादाभ्युपगमाद् असदुत्पादे चात्रफलादीनामप्युत्पत्तिप्रसङ्गा' दित्येतद्वाच्ात्रं, तथाहि यदि सर्वथा कारणे कार्यमस्ति न तर्क्युत्पादो निष्पन्नघटस्येव, अपिच मृत्पिण्डावस्थायामेव घटगताः कर्मगुणव्यपदेशा भवेयुः, न च भवन्ति, ततो नास्ति कारणे कार्यम्, अथानभिव्यक्तमस्तीति चेन्न तर्हि सर्वात्मना विद्यते, नाप्येकान्तेनासत्कार्यवाद एव, तद्भावे हि व्योमारविन्दानामध्ये कान्तेनासतां मृत्पिण्डादेर्घटादेरिवोत्पत्तिः स्यात् न चैतद्दृ१] कार्यस्य २ शयः ३ सरूपेण ४ खखाधारपदार्थेषु ५ पपन्नं प्र० Internationa For Penal Use On ~ 282~
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy