SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-4] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [१७], नियुक्ति: [१७८] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-[०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [५७] दीप अनुक्रम [६८९] शाराहारेण वृद्धिमुपगताः स्त्रीपुनपुंसकानामन्यतमत्वेनोत्पधन्ते, ते च जीवा जलचरा गर्भावयुत्क्रान्ताः सन्तस्तदनन्तरं यावद् 'डहर'ति लघवस्तावदपूनेहम्-अपूकायमेवाहारयन्ति आनुपूर्येण च वृद्धवाः सन्तो वनस्पतिकाय तथाऽपरांच सान् । स्थावरांचाहारयन्ति यावत्पश्चेद्रियानप्याहारयन्ति, तथा चोक्तम्-“अस्ति मत्स्यस्तिमिर्नाम, शवयोजनविस्तरः । तिमिनिलगिलोऽप्यस्ति, तद्गिलोऽप्यस्ति राघव! ॥१॥" तथा ते जीवाः पृथिवीशरीरं-कर्दमखरूपं क्रमेण वृद्धिमुपगताः सन्त आहारयन्ति, तचाहारितं सत्समानरूपीकृतमात्मसात्परिणामयन्ति, शेष सुगम, यावत्कर्मोपगता भवन्तीत्येवमाख्यातम् ।। साम्प्रतं | स्थलचरानुद्दिश्याह-'अहावर'मित्यादि, अथापरमेतदाख्यातं नानाविधानां चतुष्पदानां, तद्यथा एकखुराणामित्यश्वखरादीनां | तथा द्विखुराणां-गोमहिप्यादीनां तथा गण्डीपदानां-हस्तिगण्डकादीनां तथा सनखपदानां-सिंहव्याघ्रादीनां यथाबीजेन यथावकाशेन सकलपर्याप्तिमवाप्योत्पद्यन्ते ते चोत्पन्नाः सन्तस्तदनन्तरं मातुः स्तन्यमाहारयन्तीति, क्रमेण च वृद्धिमुपगताः सन्तोऽपरेषामपि शरीरमाहारयन्तीति शेषं सुगमं यावत्कोपगता भवन्तीति ॥ साम्प्रतमुरम्परिसर्पानुद्दिश्याह-'नानाविधानां' बहुप्रकारा-18 णामुरसा ये प्रसर्णन्ति तेषां, तद्यथा-अहीनामजगराणामाशालिकानां महोरगाणां यथावीजवेन यथावकाशेन चोत्पच्याउण्डजलेन पोतजलेन वा गर्भाभिगच्छन्तीति । ते च निर्गता मातुरूष्माणं वायुं चाहारयन्ति, तेषां च जातिप्रत्ययेन तेनैवाहारेण क्षीरादिनेव वृद्धिरुपजायते, शेष सुगम, याबदाख्यातमिति ॥ साम्प्रतं भुजपरिसर्पानुद्दिश्याह-नानाविधानां भुजाभ्यां ये परिसप्पैन्ति तेषां, तद्यथा-गोधानकुलादीनां खकर्मोपातेन यथाबीजेन यथावकाशेन चोत्पत्तिर्भवति, ते चाण्डजवेन पोतजलेन चोत्पन्नास्तदनन्तरं मातुरूष्मणा वायुना चाऽऽहारितेन पृद्धिमुपयान्ति, शेपं सुगम, यावदाख्यातमिति ॥ साम्प्रतं खचरानुद्दिश्याह- नानाविधानो raelaerserserseisersecroectroercecerce ~2424
SR No.035004
Book TitleSavruttik Aagam Sootraani 1 Part 04 Sootrakrut Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages392
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size84 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy