________________
आगम
(०२)
प्रत
सूत्रांक
[१५]
दीप
अनुक्रम [६४७]
[भाग-4] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ १ ], उद्देशक [-], मूलं [१५], निर्युक्तिः [१५७ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित
आगमसूत्र - [०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सितं विरूपं हिंसितं विहिंसितं न सम्यक् निर्जीवीकृतमित्यर्थः, तत्प्रतिषेधादविहिंसितं, निर्जीवमित्यर्थः, तदप्येषितम् - अन्वेषितं भिक्षाचर्याविधिना प्राप्तं, 'वैषिक' मिति केवलसाधुवेपावाप्तं न पुनर्जात्याद्याजीवन तो निमित्तादिना वोत्पादितं तदपि 'सामुदानिर्क' समुदानं भिक्षासमूहस्तत्र भवं सामुदानिकम् एतदुक्तं भवति मधुकरवृत्त्याश्वासं सर्वत्र स्तोकं स्तोकं गृहीतमित्यर्थः । तथा प्रज्ञस्येदं प्राज्ञ - गीतार्थेनोपात्तमशनम् - आहारजातं, तदपि वेदनावैय्यावृत्यादिके कारणे सति, तत्रापि प्रमाणयुक्तं नातिमात्रं, प्रमाणं | चेदम्- "अद्धमसणस्स सर्वजणस्स कुज्जा दवस्स दो भाए । वाउपवियारणट्टा छन्भागं ऊणयं कुजा ॥ १ ॥” इति । एतदपि न वर्ण| बलाद्यर्थ किंतु यावन्मात्रेणाहारेण देहः क्रियासु प्रवर्तते, तत्र दृष्टान्तद्वयमाह -तयथा- अक्षस्योपाञ्जनम् - अभ्यङ्गो व्रणस्य च लेपनंप्रलेपस्तदुपमया आहारमाहरेत्, तथा चोक्तम्- "अभंगेण व सगडं ण तरह विगई विणा उ जो साहू । सो रागदोसर हिओ मचाएँ विहीह तं सेवे ॥ १ ॥ एतदेव दर्शयति-संयमयात्रायां मात्रा संयमयात्रामात्रा यावत्याऽऽहारमात्रया संयमयात्रा प्रवर्तते सा तथा तया संयमयात्रामात्रया वृत्तिर्यस्य तत्तथा तदपि बिछप्रवेशपन्नगभूतेनात्मनाऽऽहारमाहरेत्, एतदुक्तं भवति यथाऽहिर्बिलं प्रविशन् तूर्णं प्रविशति एवं साधुनाऽप्याहारस्तत्खा दमनाखादयता शीघ्रं प्रवेशयितथ्य इति यदिवा सर्पेणेवाहारो लब्ध्वाऽस्वादमभ्यवहार्यत इति । तदेव चाहारजातं दर्शयितुमाह- 'अन्नं' भक्तम् 'अन्नकाले' सूत्रार्थपौरुष्युत्तरकालं भिक्षाकाले प्राप्ते, पुरः पश्चात्कर्मपरिहृतं भवति यथोक्तभिक्षाटनेन, ग्रहणकालावासं मैक्षं परिभोगकाले भुञ्जीत, तथा पानकं पानकाले, नातितृषितो भुञ्जीत ना
१ अर्द्धमशनस्य सव्यंजनस्य कुर्याद्रवस्य द्वौ भागौ वातप्रविचारणार्थ परं भागमूनं कुर्यात् ॥ १ ॥ २ अभ्यनेनेव शकटं न शक्नोति विकृति विनैव यः साधुः । रागद्वेषरहितो मात्रा विधिना तो सेवेत ॥ १ ॥
Education International
For Pernal Use Only
~132~