SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||१७|| दीप अनुक्रम [१७] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१७], निर्युक्तिः [३५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः Eaton यदा विनाशहेतुसद्भावस्तस्व तदा विनाशः तथा च स्वविनाशकारणापेक्षाणामनित्यानामपि पदार्थानां न क्षणिकलमिति, एतच्चानुपासित गुरोर्वचः, तथाहि तेन मुद्गरादिकेन विनाशहेतुना घटादेः किं क्रियते १, किमत्र प्रष्टव्यम् । अभावः क्रियते, अत्र च प्रष्टव्यो देवानांप्रियः, अभाव इति किं पर्युदासप्रतिषेधोऽयमुत प्रसज्यप्रतिषेध इति १ तत्र यदि पर्युदासस्ततोऽयमर्थोभावादन्योऽभावो भावान्तरं— घटात्पटादिः सोऽभाव इति, तत्र भावान्तरे यदि मुद्गरादिव्यापारो न तर्हि तेन किश्चिद् घटस्य कृतमि ति, अथ प्रसज्यप्रतिषेधस्तदाऽयमर्थो - विनाशहेतुरभावं करोति, किमुक्तं भवति १ - भावं न करोतीति, ततथ क्रियाप्रतिषेध एव कृतः स्यात् न च घटादेः पदार्थस्य मुद्गरादिना करणं, तस्य स्वकारणैरेव कृतलात्, अथ भावाभावोऽभावस्तं करोतीति, तस्य तुच्छस्य नीरूफ्लात् कुतस्तत्र कारकाणां व्यापारः १ अथ तत्रापि कारकव्यापारो भवेत् खरशृङ्गादावपि व्याप्रियेरन् कारकाणीति । तदेवं विनाशहेतोरकिञ्चित्करलात् खहेतुत एवानित्यताक्रोडीकृतानां पदार्थानामुत्पत्तेर्विभहेतोधाभावात् क्षणिकलमवस्थितमिति । तुशब्दः पूर्ववादिभ्योऽस्य व्यतिरेक प्रदर्शकः, तमेव श्लोकपथार्धेन दर्शयति 'अण्णो अणण्णो' इति ते हि बौद्धा यथा|ऽऽत्मपष्ठवादिनः सांख्यादयो भूतव्यतिरिक्तमात्मानमभ्युपगतवन्तो यथा च चार्वाका भूताव्यतिरिक्तं चैतन्याख्यमात्मानमिष्टवन्तस्तथा 'नैवाहुः' नैवोक्तवन्तः, तथा हेतुभ्यो जातो हेतुकः कायाकारपरिणत भूतनिष्पादित इतियावत् तथाऽहेतुकोऽनाद्यपर्यवसितखान्नित्य इत्येवं तमात्मानं ते बौद्धा नाभ्युपगतवन्त इति ||१७|| तथाऽपरे बौद्धाश्रातुर्धातुकमिदं जगदाहुरित्येतद्दर्शयितुमाह पुढवी आउ तेऊ य, तहा वाऊ य एगओ । चत्तारि धाउणो रूवं, एवमाहंसु आवरे ॥ १८ ॥ For Parts Only ~62~ arrary.org
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy