SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक |१७|| दीप अनुक्रम [१७] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१७], निर्युक्तिः [३५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः सूत्रकृताङ्ग शीलाङ्का चायry नियुतं ॥२५॥ बन्धः क्षणयोगः स विद्यते येषां ते क्षणयोगिनः क्षणमात्रावस्थायिन इत्यर्थः तथा च तेऽभिदधति-स्वकारणेभ्यः पदार्थ उत्पद्यमानः किं विनश्वरस्वभाव उत्पद्यतेऽविनश्वरस्वभावो वा ?, यद्यविनश्वरस्ततस्तद्वयापिन्याः क्रमयौगपद्याभ्यामर्थक्रियाया अभावात् पदार्थस्यापि व्याप्यस्याभावः प्रसजति, तथाहि यदेवार्थक्रियाकारि तदेव परमार्थतः सदिति, स च नित्योऽर्थक्रियायां प्रवर्तमानः क्रमेण वा प्रवर्तेत यौगपद्येन वा ?, न तावत्क्रमेण, यतो ह्येकस्या अर्थक्रियायाः काले तस्यापरार्थक्रियाकरणस्वभावो विद्यते वा न वा ?, यदि विद्यते किमिति क्रमकरणं ?, सहकार्यपेक्षयेति चेत् तेन सहकारिणा तस्य कचिदतिशयः क्रियते न वा ?, यदि क्रियते किं पूर्वस्वभाव परित्यागेनापरित्यागेन वा ?, यदि परित्यागेन ततोऽतादवस्थ्यापतेरनित्यत्वम्, अथ पूर्वस्वभावापरित्यागेन ततोऽ१तिशयाभावात्किं सहकार्यपेक्षया ?, अथ अकिञ्चित्करोऽपि विशिष्टकार्यार्थमपेक्षते, तदयुक्तं यतः 'अपेक्षेत परं कश्विद्यदि कुर्वीत किश्चन । यदकिश्चित्करं वस्तु कि केनचिदपेक्ष्यते १ ॥ १॥ अथ तस्यैकार्थक्रियाकरणकालेऽपरार्थक्रियाकरणस्वभावो विद्यते, तथा च सति स्पष्टैव नित्यताहानिः, अथासौ नित्यो यौगपद्येनार्थक्रियां कुर्यात् तथा सति प्रथमक्षण एवाशेषार्थक्रियाणां करणात् द्वितीयक्षणेऽकर्तृवमायातं तथा च सैवानित्यता, अथ तस्य तत्स्वभावत्वात्ता एवार्थक्रिया भूयो भूयो द्वितीयादिक्षणेष्वपि कुर्यात्, तदसाम्प्रतं कृतस्य करणाभावादिति, किंच-- द्वितीया दिक्षणसाध्या अध्यर्थाः प्रथमक्षण एवं प्राप्नुवन्ति, तस्य तत्स्वभा वखात्, अतत्स्वभावले च तस्यानित्यत्वापत्तिरिति । तदेवं नित्यस्य क्रमयौगपद्याभ्यामर्थक्रियाविरहान स्वकारणेभ्यो नित्यस्योत्पाद इति । अथा नित्यस्वभावः समुत्पद्यते, तथा च सति विनाभावादायातमस्मदुक्तमशेषपदार्थजातस्य क्षणिकसं, तथा चोक्तम्- "जातिरेव हि भावानां विनाशे हेतुरिष्यते । यो जातच न च ध्वस्तो, नश्येत्पश्चात्स केन च १ ॥ १ ॥" ननु च सत्यप्यनित्यते यस्य Eaton lite For Parts Only ~ 61~ १ समयाध्ययने अफवाल दिबौद्धाः ।। २५ ।। wor
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy