________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [१], मूलं [गाथा-१४], नियुक्ति: [३३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक ||१४||
Reete
तदादिमत्प्रतिनियताकारमपि न भवति, यथाऽकाशम् , आदिमत्प्रतिनियताकारस्य च सकर्तृत्वेन व्याप्तः, व्यापकनिवृत्ती व्याप्यस्य । विनिवृत्तिरिति सर्वत्र योजनीयम् । तथा विद्यमानाधिष्ठातृकानीन्द्रियाणि, करणत्वात् , यद्यदिह करणं तत्तद्विद्यमानाधिष्ठातृकं रएं, यथा दण्डादिकमिति, अधिष्ठातारमन्तरेण करणत्वानुपपचिः यथाऽऽकाशस्थ, हषीकाणां चाधिष्ठाताऽऽस्मा, स च तेभ्योऽन्य इति, तथा विद्यमानाऽऽदातृकमिदमिन्द्रियविषयकदम्बकम् , आदानादेयसद्भावात् , इह.यत्र यत्राऽऽदानादेयसद्भावस्तत्र तत्र विद्य| मान आदावा-ग्राहको दृष्टः, यथा.संदंशकायपिण्डयोस्तद्भिबोध्यस्कार इति, यश्चात्रेन्द्रियैः करणैर्विषयाणामादाता-ग्राहकः स तद्भिन्न आत्मेति, तथा विद्यमानभोक्तृकमिदं शरीरं, भोग्यत्वादोदनादिवत् , अत्र च कुलालादीनां मूर्तत्वानित्यत्वसंहतत्वदर्शनादात्मापि तथैव सादिति धर्मिविशेषविपरीतसाधनत्वेन विरुद्धाशङ्का न विधेया, संसारिण आत्मनः कर्मणा सहान्योज्ज्यानुवन्धतः ॥ कथश्चिन्मूर्तत्वाद्यभ्युपगमादिति, तथा यदुक्तम् 'नास्ति सवा औपपातिका' इति, तद्प्ययुक्तं, यतस्तदहर्जातवालकस्य यः स्तनाभि| लापः सोन्याभिलाषपूर्वकः, अभिलाषत्वात् , कुमाराभिलाषवत् , तथा बालविज्ञानमन्यविज्ञानपूर्वकं, विज्ञानत्वात् , कुमारविज्ञान-18 वत् , तथाहि-तदहर्जातवालकोऽपि यावत्स एवार्य स्तन इत्येवं नावधारयति तावनोपरतरुदितो मुखमर्पयति स्तने इति, अतोऽस्ति 48 बालके विज्ञानलेशः, स चान्यविज्ञानपूर्वकः, तच्चान्यद्विज्ञानं भवान्तरविज्ञानं, तस्मादस्ति सत्त्व औपपातिक इति । तथा यदभिहितं, 'विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानु विनश्यती'ति,तत्राप्ययमों-'विज्ञानघनो विज्ञानपिण्ड आत्मा 'भूतेभ्य उत्थायेति माक्तनकर्मवशात्तथाविधकायाकारपरिणते भूतसमुदाये तद्वारेण खकर्मफलमनुभूय पुनस्तद्विनाशे आत्मापि तदनु तेनाकारण। १नाक्षाणां प्रतिनियत आकारः, जम्बूद्वीपादिलोकस्थिति निषेधार्थमाविमश्यम् ।
Recenerdercedeseesesekesesesed
दीप अनुक्रम [१४]
caeeeeee
SAREauratoninternational
Hereasaramorg
~54~