________________
आगम
(०२)
प्रत
सूत्रांक
||२०||
दीप
अनुक्रम [५७६]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [२०], निर्युक्तिः [१२६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..... आगमसूत्र -[०२], अंग सूत्र -[ ०२ ] "सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
ष्टोऽपृष्टो वैकान्तमोनेन–संयमेन करणभूतेन व्यागृणीयात् धर्मकथावसरे, अन्यदा संयमावाधया किञ्चित्धर्मसंवद्धं ब्रूयात् किं परिगणय्यैतत्कुर्यादित्याह यदिवा किमसौ ब्रूयादिति दर्शयति- 'एकस्य' असहायस्य जन्तोः शुभाशुभ सहायस्य 'गतिः' गमनं परलोके भवति, तथा आगतिः- आगमनं भवान्तरादुपजायते कर्मसहायस्यैवेति, उक्तं च- "एकः प्रकुरुते कर्म, अनम्येकथ तत्फलम् । जायते म्रियते चैक, एको याति भवान्तरम् ॥ १ ॥ " इत्यादि । तदेवं संसारे परमार्थतो न कश्चित्सहायो धर्ममेकं विहाय, एव| द्विगणय्य मुनीनामयं मौन:- संयमस्तेन तत्प्रधानं वा ब्रूयादिति ।। १८ ।। किश्चान्यत् - 'स्वयम्' आत्मना परोपदेशमन्तरेण | 'समेत्य' ज्ञाखा चतुर्गतिकं संसारं तत्कारणानि च मिथ्यात्वाविरतिप्रमादकषाय योगरूपाणि तथाऽशेषकर्मक्षयलक्षणं मोक्षं तत्का६ रणानि च सम्यग्दर्शनज्ञानचारित्राण्येतत्सर्वं स्वत एवावबुध्यान्यसाद्वाऽऽचार्यादेः सकाशाच्छुलाऽन्यसे मुमुक्षवे 'धर्म' श्रुतचारित्राख्यं भाषेत, किंभूतं ?-- प्रजायन्त इति प्रजाः-स्थावरजङ्गमा जन्तवस्तेभ्यो हितं सदुपदेशदानतः सदोपकारिणं धर्म ब्रूयादिति । उपादेयं प्रदर्श्य हेयं प्रदर्शयति 'गर्हिता' जुगुप्सिता मिथ्यात्वाविरतिप्रमादकपाययोगाः कर्मबन्धहेतवः सह निदानेन वर्तन्त | इति सनिदानाः प्रयुज्यन्त इति प्रयोगा- व्यापारा धर्मकथाप्रबन्धा वा ममामात्सकाशात्किञ्चित् पूजालाभसंस्कारादिकं भविष्यतीत्येवंभूतनिदानाऽऽशंसारूपास्तांचारित्रविभभूतान् महर्षयः सुधीरधर्माणो 'न सेवन्ते' नानुतिष्ठन्ति । यदिवा ये गर्हिताः सनिदाना वाक्प्रयोगाः, तद्यथा-कुतीर्थिकाः सावधानुष्ठानरता निःशीला निर्वताः कुण्टलवेण्टलकारिण इत्येवंभूतान् परदोषोद्घट्टनया मर्मवेोधिनः सुधीरधर्माणो वाकण्टकान् 'न सेवन्ते' न मुक्त इति ||१९|| किञ्चान्यत् केषाञ्चिन्मिथ्यादृष्टीनां कुतीर्थिक भावितानां | स्वदर्शनाऽऽग्रहिणां 'तर्कया' वितर्केण स्वमतिपर्यालोचनेन 'भावम्' अभिप्रायं दुष्टान्तःकरणवृचितमबुद्धा कचित्साधुः श्रावको वा
For Parts Only
~488~
waryra