________________
आगम
(०२)
प्रत
सूत्रांक
||२०||
दीप
अनुक्रम
[५७६]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१३], उद्देशक [-], मूलं [२०], निर्युक्तिः [१२६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित......आगमसूत्र -[ ०२], अंग सूत्र- [०२] "सुत्र कृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
सूत्रकृताङ्गं
शीलाङ्काचार्यय
चियुतं
||२३८||
यथावस्थितो धर्मः - श्रुतचारित्राख्यो येन स तथा स चैवंभूतः कविदवसरे ग्रामं नगरमन्यद्वा मडम्बादिकमनुप्रविश्य भिक्षार्थमसाबुत्तमधृतिसंहननोपपन्नः सन्नेषणां गवेषणग्रहणैपणादिकां 'जानन्' सम्यगवगच्छन्ननेषणां च उद्गमदोपादिकां तत्परिहारं विपाकं च सम्यगवगच्छन् अन्नस्य पानस्य वा 'अननुगृद्धः' अनभ्युपपन्नः सम्यन्विहरेत्, तथाहि - स्थविरकल्पिका द्विवारिंशद्दोषरहितां भिक्षां गृह्णीयुः, जिनकल्पिकानां तु पञ्चखभिग्रहो द्वयोर्ग्रहः, तामाः - 'संसईमसंसट्टा उद्धड तह होति अप्पलेवा उम्गहिया पग्गहिया उज्झियधम्मा य सत्तमिया ||१||' अथवा यो यस्थाभिग्रहः सा तस्यैषणा अपरा खनेषणेत्येवमेपणानेषणाभिज्ञः कचित्प्रविष्टः सन्नाहारादावमूर्च्छितः सम्यक् शुद्धां भिक्षां गृह्णीयादिति ॥ १७॥ तदेवं भिक्षोरनुकूलविपयोपलब्धिमतोऽ| प्यरक्तद्विष्टतया तथा दृष्टमप्यदृष्टं श्रुतमप्यश्रुतमित्येवं भावयुक्ततया च मृतकल्पदेहस्य सुदृष्टधर्मण एषणानेषणा भिज्ञस्थानपानादावमूर्च्छितस्य सतः कचिद् ग्रामनगरादौ प्रविष्टस्यासंयमे रतिररतिश्च संयमे कदाचित्प्रादुष्ष्यात् सा चापनेतव्येत्येतदाह - महामुनेरप्यस्नानतया मलाविलस्यान्तप्रान्तवल्लचणकादिभोजिनः कदाचित्कर्मोदयादरतिः संयमे समुत्पद्येत तां चोत्पन्नामसौ भिक्षुः संसारखभावं परिगणय्य तिर्यङ्गारकादिदुःखं चोत्प्रेक्षमाणः खल्पं च संसारिणामायुरित्येवं विचिन्त्याभिभवेद्, अभिभूय चासावेकान्तमौनेन व्यागृणीयादित्युत्तरेण संबन्धः, तथा रतिं च 'असंयमे' सावधानुष्ठाने अनादिभवाभ्यासादुत्पन्नामभिभवेदभिभूय च संयमोद्युक्तो भवेदिति । पुनः साधुमेव विशिनष्टि- बहवो जनाः साधवो गच्छवासितया संयमसहाया यस्य स बहुजनः, तथैक एव चरति तच्छीलयैकचारी, स च प्रतिमाप्रतिपन्न एकल्लबिहारी जिनकल्पादिर्वा स्यात्, स च बहुजन एकाकी वा केनचित्पृ१] उद्धृता तथा भवत्यरूपलेपा च । उद्गृहोता प्रगृहीता उज्झितधर्मा च सप्तमिका ॥ १ ॥
Education Internation
For Parts Only
~ 487~
१३ याचा
तथ्याध्य०
રા