SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||२२|| दीप अनुक्रम [५५६] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [२२], निर्युक्तिः [१२१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र -[०२], अंग सूत्र [०२] "सुत्र कृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः | जलवतो भावो जलवत्त्वमित्यत्र घटसामान्यरक्तगुणक्रियाद्रव्यसंबन्धरूपाणां गुणानां सद्भावात् द्रव्ये पृथुयुभाकार उदकाद्याहरणक्षमे कुटकाख्ये शब्दस्य घटादेरभिनिवेशस्तत्र त्वतलों, इह च रक्ताख्यः को गुणो ? यत् सद्भावात्, कतरच तद् द्रव्यं यत्र शब्दनिवेशो येन भावप्रत्ययः स्यादिति । किमिदानीं रक्तस्य भावो रक्तत्वमिति न भवितव्यं ?, भवितव्यमुपचारेण, तथाहि रक्त इत्येतद्रव्यत्वेनोपचर्य तस्य सामान्यं भाव इति रक्तत्वमिति, न चोपचारस्तत्त्व चिन्तायामुपयुज्यते, शब्द सिद्धावेव तस्य कृतार्थत्वादिति शब्द श्राकाशस्य गुण एव न भवति, तस्य पौगलिकत्वाद्, आकाशस्य चामूर्तत्वादिति । शेषं तु प्रक्रियामात्रं न साघनदूषणयोरङ्गम् । क्रियाऽपि द्रव्यसमवायिनी गुणवत्पृथगाश्रयितुं न युक्तेति । अथ सामान्यं तद्विधा परमपरं च तत्र परं महासत्ताख्यं द्रव्यादिपदार्थव्यापि, तथाचोक्तम्- “सदिति यतो द्रव्यगुणकर्मसु सा सत्ता" अपरं च द्रव्यत्वगुणत्व कर्मत्वात्मक, तत्र न तावन्महासत्तायाः पृथक्पदार्थता युज्यते, यतस्तस्यां यः सदिति प्रत्ययः स किमपरसत्तानिबन्धन उत्त स्वत एव १, तत् यद्यपरसत्तानिबन्धनस्तत्राप्ययमेव विकल्पोऽतोऽनवस्था, अथ स्वत एव ततस्तद्वद् द्रव्यादिष्वपि खत एव सत्प्रत्ययो भविष्यतीति किमपरसतयाऽजागलस्तन कल्पया विकल्पितया ?, किश्च - द्रव्यादीनां किं सतां सत्तया सत्प्रत्यय उतासतां १, तत् यदि सतां | स्वत एव सत्प्रत्ययो भविष्यति किं तया ?, असत्पक्षे तु शशविषाणादिष्वपि सत्तायोगात्सत्प्रत्ययः स्यादिति, तथा चोक्तम्"स्वतोऽर्थाः सन्तु सत्तावत्सत्तया किं सदात्मनाम् । असदात्मसु नैषा स्वात्सर्वथाऽतिप्रसङ्गतः ॥ १ ॥" इत्यादि । एतदेव दूषणमपरसामान्येऽप्यायोज्यं, तुल्ययोगक्षेमत्वात् । किञ्च - अस्माभिरपि सामान्यविशेषरूपत्वाद्वस्तुनः कथञ्चित्तदिष्यत एवेति, तस्य च १ समानखभावो भावः । २ गुणस पदार्थस्वरूपलान पृथकपदार्थता ३ द्रव्यादिभिन्नया । Ja Eucation Internation For Parts Only ~466~ www.or
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy