________________
आगम
(०२)
प्रत
सूत्रांक
||||
दीप
अनुक्रम [५३८ ]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [१२], उद्देशक [-], मूलं [४], निर्युक्तिः [१२१] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र -[०२], अंग सूत्र [०२] "सुत्र कृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
न्ति । अनुविचिन्त्य भाषणं यतो ज्ञाने सति भवति, तत्पूर्वकत्वाच्च सत्यवादस्य, अतो ज्ञानानभ्युपगमादनुविचिन्त्य भाषणाभावः, तदभावाच्च तेषां मृषावादित्वमिति ॥ २ ॥ साम्प्रतं वैनयिकवाद निराचिकीर्षुः प्रक्रमते सन्यो हितं 'सत्यं' परमार्थो यथावस्थितपदार्थनिरूपणं वा मोक्षो वा तदुपायभूतो वा संयमः सत्यं तद्सत्यम् 'इति' एवं 'विचिन्तयन्तो' मन्यमानाः, एवमसत्यमपि सत्यमिति मन्यमानाः तथाहि सम्यग्दर्शनज्ञानचारित्राख्यो मोक्षमार्गः सत्यस्तमसत्यत्वेन चिन्तयन्तो विनयादेव मोक्ष इत्येतदसत्यमपि सत्यत्वेन मन्यमानाः, तथा असाधुमप्यविशिष्टकर्मकारिणं वन्दनादिकया विनयप्रतिपच्या साधुम् 'इति' एवम् 'उदाहरन्तः' प्रतिपादयन्तो न सम्यग्यथावस्थितधर्मस्य परीक्षकाः, युक्तिविकलं विनयादेव धर्म इत्येवमभ्युपगमात् क एते इत्येतदा|ह – ये 'इमें' बुद्ध्या प्रत्यक्षासन्नीकृता 'जना इव' प्राकृतपुरुषा इव जना विनयेन चरन्ति वैनयिका विनयादेव केवलात्ख|र्गमोक्षावाप्तिरित्येवंवादिनः 'अनेके' बहवो द्वात्रिंशद्भेदभिन्नत्वात्तेषां ते च विनयचारिणः केनचिद्धर्मार्थिना पृष्टाः सन्तोऽपिशदादपृष्टा वा 'भाव' परमार्थं यथार्थोपलब्धं खाभिप्रायं वा विनयादेव स्वर्गमोक्षावाप्तिरित्येवं 'व्यनैषुः ' विनीतवन्त:सर्वदा सर्वस्य सर्वसिद्धये विनयं ग्राहितवन्तः, नामशब्दः संभावनायां संभाव्यत एव विनयात्स्वकार्यसिद्धिरिति, तदुक्तम्"तस्मात्कल्याणानां सर्वेषां भाजनं विनय" इति ॥ ३ ॥ किंचान्यत्-संख्यानं संख्या - परिच्छेदः उप-सामीप्येन संख्या उपसंख्या- सम्यग्यथावस्थितार्थपरिज्ञानं नोपसंख्याऽनुपसंख्या तयाऽनुपसंख्यया - अपरिज्ञानेन व्यामूढमतयस्ते वैनयिकाः स्वाग्रह ग्रस्ता इति एतद् यथा विनयादेव केवलात्स्वर्गमोक्षावाप्तिरित्युदाहृतवन्तः, एतच ते महामोहाच्छा१ समुचयार्थत्वात्तच्छब्देनानुविचिन्त्य भाषणपरामर्शः २ ०कारिणः । ३ ०म्भं प्र० ।
Ja Eucation International
For Parts Only
~438~
Ratse
wor