SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ आगम (०२) [भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [११], उद्देशक [-1, मूलं [२४...], नियुक्ति: [११५] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२४|| సంతరించి निश्चयेनायन-विशिष्टस्थानप्राप्तिलक्षणं यसिन् सति स न्यायः, स चेह सम्यकचारित्रावाप्तिरूपोज्यगन्तव्यः, सत्पुरुषाणामयं न्याय एव यदुत अवाप्तयोः सम्पग्दर्शनज्ञानयोस्तत्फलभूतेन सम्यक्चारित्रेण योगो भवतीत्यतो न्यायशब्देनात्र चारित्रयोगोऽभिधीयत । | इति ३, तथा 'विधि'रिति विधान विधिः सम्यग्रज्ञानदर्शनयोयोगपद्येनावाप्तिः४, तथा 'धृति'रिति धरणं धृतिः सम्यग्दर्शने सति चारित्रावस्थानं माषतुषादाविव विशिष्टज्ञानाभावाद्विवक्षयैवमुच्यते ५, तथा 'सुगति रिति शोभना गतिरसात् ज्ञानाचारित्राचेति सुगतिः, 'ज्ञानक्रियाभ्यां मोक्ष' इति न्यायात्सुगतिशब्देन ज्ञानक्रिये अभिधीयते, दर्शनस्य तु ज्ञानविशेषखादत्रैवान्तर्भावोऽवगन्तव्यः ६, तथा 'हित मिति परमार्थतो मुक्त्यवाप्तिस्तत्कारणं वा हितं, तच सम्यग्दर्शनज्ञानचारित्राख्यमवगन्तव्य-18|| मिति ७, अत्र च संपूर्णानां सम्यग्दर्शनादीनां मोक्षमार्गले सति यद्वयस्तसमस्तानां मोक्षमार्गत्वेनोपन्यासः स प्रधानोपसर्जनविव क्षया न दोपायेति, तथा 'सुख मिति सुखहेतुखासुखम्-उपशमश्रेण्यामुपशामकं प्रत्यपूर्वकरणानिवृत्तिवादरमूक्ष्मसंपरायरूपा || 18 गुणत्रयावस्थाद, तथा 'पथ्य'मिति पथि-मोक्षमार्गे हितं पथ्यं, तच्च क्षपकरेण्या पूर्वोकं गुणत्रयं ९, तथा 'श्रेय' इत्युपशमश्रेणि मस्तकावस्था, उपशान्तसर्वमोहावस्थेत्यर्थः १०, तथा निर्वृतिहेतुत्वानिवृतिः क्षीणमोहावस्थेत्यर्थः, मोहनीयविनाशेऽवश्यं निर्वृति: सद्भावादितिभावः ११, तथा 'निर्वाण'मिति धनधातिकर्मचतुष्टयक्षयेण केवलज्ञानावाप्तिः१२, तथा 'शिव' मोक्षपदं तत्करणशीलं| शैलेश्यवस्थागमन मिति १३, एवमेतानि मोक्षमार्गखेन किश्चिनेदाद् भेदेन व्याख्यातान्यभिधानानि, यदिवते पर्यायशब्दा एकार्थिका मोक्षमार्गस्थेति । गतो नामनिष्पनो निक्षेपः, तदनन्तरं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदम् कयरे मग्गे अक्खाए, माहणेणं मईमता ? । जं मग्गं उज्जु पावित्ता, ओहं तरति दुत्तरं ॥१॥ दीप अनुक्रम [४९६] Secene Prasacasses सम्यग व मिथ्या मार्गस्य स्वरुप-निरूपणा, मूल सूत्रस्य आरम्भ: ~406~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy