________________
आगम (०२)
[भाग-3] “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [-], मूलं [२६...], नियुक्ति: [९९] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-०२], अंग सूत्र-०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
अथ नवमं अध्ययनं प्रारभ्यते ॥
प्रत सूत्रांक ||२६||
दीप अनुक्रम [४३६]
अष्टमानन्तरं नवमं समारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तराध्ययने वालपण्डितभेदेन द्विरूपं वीर्य प्रतिपादितं, अ-18 वापि तदेव पण्डितवीर्य धर्म प्रति यदुधमं विधत्ते अतो धर्मः प्रतिपाद्यत इत्यनेन सम्बन्धेन धर्माध्ययनमायातं, अस्य चखार्यनु-1 | योगद्वाराणि उपक्रमादीनि प्राग्वत् व्यावर्गनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारोऽयं, तद्यथा-धर्मोच प्रतिपाद्यत इति तम-18 |धिकृत्य नियुक्तिकृदाह
धम्मो पुब्बुदिडो भावधम्मेण एत्य अहिगारो । एसेव होइ धम्मे एसेव समाहिमग्गोत्ति ॥ ९९ ॥ दुर्गतिगमनधरणलक्षणो धर्मः प्राक् दशवकालिकश्रुतस्कन्धषष्ठाध्ययने धर्मार्थकामाख्ये उद्दिष्टः-प्रतिपादितः, इह तु भावधर्मेणाधिकारः, एष एव च भावधर्मः परमार्थतो धर्मो भवति, अमुमेवार्थमुत्तरयोरप्यध्ययनयोरतिदिशबाह-एष एव च भावसमाधिर्भावमार्गश्च भवतीत्यवगन्तव्यमिति, यदिवैप एव च भावधर्मः एष एव च भावसमाधिरेष एव च तथा भावमार्गो भवति, न तेषां परमार्थतः कविनेदः, तथाहि-धर्मः श्रुतचारित्राख्यः क्षान्त्यादिलक्षणो वा दशप्रकारो भवेत् , भावसमाधिरप्येवंभूत एव, तथाहि-सम्यगाधानम् आरोपणं गुणानां क्षान्त्यादीनामिति समाधिः, तदेवं मुक्तिमार्गोऽपि ज्ञानदर्शनचारित्राख्यो भावधर्मतया व्याख्यानयितव्य इति ।। साम्प्रतमतिदिष्टस्यापि स्थानाशून्यार्थ धर्मस्य नामादिनिक्षेप दर्शयितुमाह--
अत्र नवमं अध्ययनं "धर्म" आरब्धं, अनंतर अध्ययनस्य सम्बन्ध:, 'धर्म' शब्दस्य अर्थ एवं अधिकार:,
~362~