________________
आगम
(०२)
प्रत
सूत्रांक
||२०||
दीप
अनुक्रम [४३०]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ८ ], उद्देशक [-], मूलं [२०], निर्युक्तिः [९८] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
| मनोवाक्कायैः कृतकारितानुमतिभिश्व नवकेन भेदेनातिक्रमं न कुर्यात्, तथा सर्वतः सबाह्याभ्यन्तरतः संवृतो गुप्तः तथा इन्द्रि यदमेन तपसा वा दान्तः सन् मोक्षस्य 'आदानम्' उपादानं सम्यग्दर्शनादिकं सुयुक्तः सम्यग्विस्रोतसिकारहितः 'आहत' आददीत-गृहीयादित्यर्थः ॥ २० ॥ किञ्चान्यत् --
कडं च कजमाणं च, आगमिस्तं च पावगं । सवं तं णाणुजाणंति, आयगुत्ता जिइंदिया ॥ २१ ॥
जे याबुद्धा महाभागा, वीरा असमत्तदंसिणो । असुद्धं तेसि परकंतं, सफलं होइ सहसो ॥ २२ ॥
साधुदेशेन यदपरैरनार्यकल्पैः कृतमनुष्ठितं पापकं कर्म तथा वर्त्तमाने च काले क्रियमाणं तथाऽऽगामिनि च काले यत्करिष्यते तत्सर्व मनोवाक्कायकर्मभिः 'नानुजानन्ति' नानुमोदन्ते, तदुपभोग परिहारेणेति भावः, यदध्यात्मार्थ पापकं कर्म परैः कृतं क्रियते करिष्यते वा, तद्यथा-शत्रोः शिरच्छिन्नं छिद्यते छेत्स्यते वा तथा चौरो हतो हन्यते हनिष्यते वा इत्यादिकं परानुष्ठानं 'नानुजानन्ति न च बहु मन्यन्ते, तथा यदि परः कश्चिदशुद्धेनाहारेणोपनिमत्रयेत्तमपि नानुमन्यन्त इति, क एवम्भूता भवन्तीति दर्शयति - आत्माऽङ्कुशलमनोवाक्कायनिरोधेन गुप्तो येषां ते तथा, जितानि वशीकृतानि इन्द्रियाणि श्रोत्रादीनि यैस्ते तथा, एवम्भूताः पापकर्म नानुजानन्तीति स्थितम् ॥ २१ ॥ अन्यच्च ये केचन 'अबुद्धा' धर्म प्रत्यविज्ञातपरमार्था व्याकरणशुष्कतकदिपरिज्ञानेन जातावलेपाः पण्डितमानिनोऽपि परमार्थवस्तुतवानवबोधादबुद्धा इत्युक्तं, न च व्याकरणपरिज्ञानमात्रेण सम्यक्लव्यतिरेकेण तत्त्वावबोधो भवतीति, तथा चोक्तम्- “शास्त्रावगाहपरिघट्टनतत्परोऽपि नैवाबुधः समभिगच्छति वस्तुतत्त्वम् ।
Ja Eucation Internation
For Par Use Only
~358~