________________
आगम
(०२)
प्रत सूत्रांक
[-]
दीप
अनुक्रम
[-]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ - ], उद्देशक [-], मूलं [-], निर्युक्तिः [२२] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
दो चैव सुखंधा अज्झयणाई च हुंति तेवीसं । तेत्तिसुदेसणकाला आयाराओ द्वगुणमंगं ॥ २२ ॥ द्वावत्र श्रुतस्कन्धौ त्रयोविंशतिरध्ययनानि, त्रयस्त्रिंशदुद्देशनकालाः, ते चैवं भवन्ति - प्रथमाध्ययने चलारो द्वितीये त्रयस्तृतीये चत्वारः एवं चतुर्थपञ्चमयोद्व द्वौ तथैकादशस्खे कसरकेष्वेकादशैवेति प्रथमश्रुतस्कन्धे, तथा द्वितीयश्रुतस्कन्धे सप्ताध्ययनानि तेषां सप्तैवोदेशन कालाः, एवमेते सर्वेऽपि त्रयस्त्रिंशदिति, एतच्चाचाराङ्गाद्विगुणमङ्ग, पत्रिंशत्पदसहस्रपरिमाणमित्यर्थः ॥ २२ ॥ साम्प्रतं सूत्रकृताङ्गनिक्षेपानन्तरं प्रथमश्रुतस्कन्धस्य नामनिष्पन्ननिक्षेपाभिधित्सयाऽऽह
निक्खेवो गाहाए चडव्विहो छव्विहो व सोलससु । निक्खेवो य सुयंमि य खंधे य चउब्विहो होइ ||२३|| इहाद्यश्रुतस्कन्धस्य गाथाषोडशक इति नाम, गाथाख्यं षोडशमध्ययनं यस्मिन् श्रुतस्कन्धे स तथेति, तत्र गाथाया नामस्थापनाद्रव्यभावरूपश्चतुर्विधो निक्षेपः, नामस्थापने प्रसिद्धे, द्रव्यगाथा द्विधा- आगमतो नोआगमतच, तत्र आगमतो ज्ञाता तत्र चानुपयुक्तः 'अनुपयोगो द्रव्य मितिकुला, नोआगमतस्तु त्रिधा शशरीरद्रव्यगाथा भव्यशरीरद्रव्यगाथा ताभ्यां विनिर्मुक्ता च" सतहतरू बिसमे ण से हया ताण छड गह जलया। गाहाए पच्छद्धे भेओ छोति इककली ॥ १ ॥" इत्यादिलक्षणलक्षिता पत्रपुस्तका दिन्यस्तेति, भावगाथापि द्विविधा- आगमनोआगमभेदात्, तत्राऽऽगमतो गाथापदार्थज्ञस्तत्र चोपयुक्तः, नोआगमतस्त्विदमेव गाथारूयमध्ययनम् आगमैकदेशखादस्य । पोडशकस्यापि नामस्थापनाद्रव्यक्षेत्रकालभावभेदात् षोढा निक्षेपः, तत्र नाम१ सप्त तरवः (चतुर्मात्रा गणाः) अष्टम ( गुरुः) विषमे न ( जगणः, तस्यापातकास्तासां षष्ठे नहीं ( चतुर्लघवः) जो वा गाधायाः पश्चार्थे मेदः षष्ठ एकल इति ॥ १॥
Education International
श्रुतस्कन्ध एवं अध्ययनस्य निरुपणं
For Park Use Only
~26~
rryp