________________
आगम
(०२)
प्रत
सूत्रांक
||२२||
दीप
अनुक्रम
[२९९]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ ( मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [४], उद्देशक [२], मूलं [२२], निर्युक्तिः [६३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .....आगमसूत्र -[०२], अंग सूत्र [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
नव भेदाः, ततश्चाष्टादशभेदभिन्नमपि ब्रह्म विभृयात् यथा च स्त्रीस्पर्शपरीषदः सोढव्य एवं सर्वानपि शीतोष्णदंशमशकतृणादिस्पर्शानधिसहेत, एवं च सर्वस्पर्शसहोनगारः साधुर्भवतीति ॥ २१ ॥ क एवमाहेति दर्शयति- 'इति' एवं यत्पूर्वमुक्तं तत्सर्व स वीरो भगवानुत्पन्नदिव्यज्ञानः परहितैकरतः 'आह' उक्तवान् यत एवमतो धूतम्- अपनीतं रजः श्रीसम्पर्कादिकृतं कर्म येन स धूतरजाः तथा धूतो मोहो रागद्वेषरूपो येन स तथा पाठान्तरं वा धूतः - अपनीतो रागमार्गो - रागपन्था यस्मिन् स्त्रीसंस्तवादिपरिहारे तत्तथा तत्सर्वं भगवान् वीर एवाह, यत एवं तस्रात् स मिक्षुः 'अध्यात्मविशुद्धः सुविशुद्धान्तःकरणः सुष्ठु रागद्वेषात्मकेन स्त्रीसम्पर्केण युक्तः सन् 'आमोक्षाय' अशेषकर्मक्षयं यावत्परि-समन्तात्संयमानुष्ठानेन 'व्रजेत्' गच्छेत्संगमोद्यो गवान् भवेदिति, इतिः परिसमाप्त्यर्थे ब्रवीमीति पूर्ववत् ॥ २२ ॥ इति चतुर्थं स्त्रीपरिज्ञाध्ययनं परिसमाप्तम् ॥
Education Internation
अत्र चतुर्थ अध्ययनं परिसमाप्तम्
For Parts Only
~252~