________________
आगम
(०२)
प्रत
सूत्रांक
||१४||
दीप
अनुक्रम
[२१७]
[भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः +वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [३], मूलं [१४], निर्युक्तिः [५०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः
सूत्रकृताहूं शीलाङ्काचार्ययचियुतं
॥ ९२ ॥
भवन्तोऽपि सद्विवेकरहिताः वयं किल निष्किञ्चना इत्येवं निष्परिग्रहतथा षड्जीवनिकायरक्षणभूतं भिक्षापात्रादिकमपि संयमोपकरणं परिहृतवन्तः, तदभावाचावश्यंभावी अशुद्धाहारपरिभोग इत्येवं द्रव्यक्षेत्रकालभावानपेक्षणेन नातिकण्डूयितं श्रेयो भवतीति भावः ॥ १३ ॥ अपि च- 'तरवेन' परमार्थेन मौनीन्द्राभिप्रायेण यथावस्थितार्थप्ररूपणया ते गोशालकमतानुसारिण आजीवि कादयः बोटिका वा 'अनुशासिताः' तदभ्युपगमदोपदर्शनद्वारेण शिक्षां ग्राहिताः, केन ?- 'अप्रतिज्ञेन' नास्य मवेदमसदपि समर्थनीयमित्येवं प्रतिज्ञा विद्यते इत्यप्रतिज्ञो-रागद्वेषरहितः साधुस्तेन 'जानता' हेयोपादेयपदार्थ परिच्छेद केनेत्यर्थः, कथमनुशासिता इत्याह-योऽयं भवद्भिरभ्युपगतो मार्गों यथा यतीनां निष्किञ्चनतयोपकरणाभावात् परस्परत उपकार्योपकारकभाव ४ इत्येष 'न नियतो' न निश्रितो न युक्तिसङ्गतः, अतो येयं वाग् यथा ये पिण्डपातं ग्लानस्थानीय ददति ते गृहस्थकल्पा इत्येषा 'असमीक्ष्याभिहिता' अपर्यालोच्योक्ता, तथा 'कृतिः' करणमपि भवदीयमसमीक्षितमेव, यथा चापर्यालोचितकरणता भवति भवदनुष्ठानस्य तथा नातिकण्डूयितं श्रेय इत्यनेन प्राग्लेशतः प्रतिपादितं पुनरपि सदृष्टान्तं तदेव प्रतिपादयति ॥ १४ ॥ यथाप्रतिज्ञातमाह-
Education international
एरिसा जावई एसा, अग्गवेणु व करिसिता । गिहिणो अभिहडं सेयं, भुंजिउं ण उ भिक्खुणं ॥ १५ ॥ धम्मपन्नवणाजा सा, सारंभा ण विसोहिआ। ण उ एयाहिं बिट्टीहिं, पुवमासिं पग्गप्पिअं ॥ १६ ॥ येयमीक्षा वाक् यथा यतिना ग्लानस्थानीय न देयमित्येषा अग्रे वेणुवद-वंशवत् कर्षिता तन्वी युक्त्यक्षमखाद दुर्बलेत्यर्थः,
For Parts Only
~195~
३ उपस
गांध्य०
उद्देशः ३
॥ ९२ ॥