SearchBrowseAboutContactDonate
Page Preview
Page 194
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||१२|| दीप अनुक्रम [२१५] [भाग-3] “सूत्रकृत्” – अंगसूत्र - २ (मूलं + निर्युक्तिः +वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ३ ], उद्देशक [३], मूलं [१२], निर्युक्ति: [५०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ..... आगमसूत्र - ०२], अंग सूत्र- [०२] "सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः किञ्चना एवमभ्युपगमं कला यूयं मुग्ध्वं 'पात्रेषु' कांस्यपात्र्यादिषु गृहस्थभाजनेषु तत्परिभोगाच्च तत्परिग्रहोऽवश्यंभावी, तथाऽऽहारादिषु मूच्छ कुरुध्वमित्यतः कथं निष्परिग्रहाभ्युपगमो भवतामकलङ्क इति, अन्यच्च 'ग्लानस्य' भिक्षाटनं कर्तुमसमर्थस्य यदपरैर्गृहस्थैरभ्याहृतं कार्यते भवद्भिः, यतेरानयनाधिकाराभावाद् गृहस्थानयने च यो दोषसद्भावः स भवतामवश्यंभावीति, तमेव दर्शयति-यच्च गृहस्थैत्रींजोदकाद्युपमर्देनापादितमाहारं भुक्त्वा तं ग्लानमुद्दिश्योदेशकादि 'यत्कृतं ' यन्निष्पादितं तदवश्यं युष्मत्परिभोगायावतिष्ठते । तदेवं गृहस्थगृहे तद्भाजनादिषु भुञ्जानास्तथा ग्लानस्य च गृहस्तैरेव वैयावृत्यं कारयन्तो यूयमवश्यं बीजोदकादिभोजिन उद्देशिकादिकृतभोजिनश्रेति ॥ १२ ॥ किञ्चान्यत्- लित्ता तिवाभितावेणं, उज्झिआ असमाहिया । नातिकंडूइयं सेयं, अरुयस्सावरज्झती ॥ १३ ॥ तत्तेण अणुसिट्टा ते, अपडिनेण जाणया । ण एस णियए मग्गे, असमिक्खा वती किती ॥१४॥ योऽयं षड्जीवनिकाय विराधनयोद्दिष्टभोजिलेनाभिगृहीतमिथ्यादृष्टितया च साधुपरिभाषणेन च वीत्रोऽभितापः - कर्मबन्धरूपस्तेनोपलिप्ताः संवेष्टितास्तथा 'उज्झिय'ति सद्विवेकशून्या भिक्षापात्रादित्यागात्परगृहभोजितयोदेशकादिभोजितात् तथा 'असमाहिता' शुभाध्यवसायरहिताः सत्साधुप्रद्वेषिखात्, साम्प्रतं दृष्टान्तद्वारेण पुनरपि तद्दोषाभिधित्सयाऽऽह – यथा 'अरुषः ' व्रणस्यातिकण्डूयितं - नखैर्विलेखनं न श्रेयो न शोभनं भवति, अपि तपराध्यति - तत्कण्डूयनं व्रणस्य दोषमावहति, एवं १ प्रमापादनं तैः संबन्धमात्रस्य परिग्रहत्वाभ्युपगमात् अन्यथा निर्मूर्च्छ धर्मोपकरणधरणापतेः Education Intention For Parts Only ~194~
SR No.035003
Book TitleSavruttik Aagam Sootraani 1 Part 03 Sootrakrut Mool evam Vrutti Part 1
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages498
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size100 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy