SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [२], सप्तैकक [१], उद्देशक [-], मूलं [१६३], नियुक्ति: [३२०] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक [१६] 'विपरिक्रमिष्यामि' परिस्पन्दं करिष्यामि, हस्तपादाद्याकुश्चनादि करिष्यामीत्यर्थः, तथा तत्रैव सविचारं स्तोकपादादिलाविहरणरूपं स्थानं 'स्थास्यामि' समाश्रयिष्यामि, प्रथमा प्रतिमा । द्वितीयायां स्वाकुञ्चनप्रसारणादिक्रियामवलम्बनं च करिष्ये न पादविहरणमिति । तृतीयायां त्वाकुञ्चनप्रसारणमेव नावलम्बनपादविहरणे इति । चतुर्थी पुनस्वयमपि न वि-18 ४ धत्ते, स चैवंभूतो भवति-व्युत्सृष्टः-त्यक्तः परिमितं कालं कायो येन स तथा, तथा व्युत्सृष्टं केशश्मश्रुलोमनखं येन स तथा, एवंभूतश्च सम्यग्निरुद्धं स्थानं स्थास्थामीत्येवं प्रतिज्ञाय कायोत्सर्गव्यवस्थितो मेरुवन्निष्पकम्पस्तिष्ठेत् , यद्यपि कश्चि केशाधुसाटयेत्तथाऽपि स्थानान्न चलेदिति, आसां चान्यतमा प्रतिमा प्रतिपद्य नापरमप्रतिपन्नप्रतिमं साधुमपवदेन्नात्मोतात्कर्ष कुर्यान किश्चिदेवंजातीयं वदेदिति ॥ प्रथमः सप्तककः समाप्तः ॥२-२-१॥ दीप अनुक्रम [४९७] प्रथमानन्तरं द्वितीयः सप्तककः, सम्बन्धश्चास्य-इहानन्तराध्ययने स्थानं प्रतिपादितं, तच्च किंभूतं स्वाध्याययोग्यं ?, तस्यां | च स्वाध्यायभूमौ यद्विधेयं यच्च न विधेयमित्यनेन सम्बन्धेन निषीधिकाऽध्ययनमायातम् , अस्य च चत्वार्यनुयोगद्वाराणि भवन्ति, तत्र नामनिष्पन्ने निक्षेपे निषीथिकेति नाम, अस्य च नामस्थापनाद्रव्यक्षेत्रकालभावैः पडिधो निक्षेपः, नामस्थापने पूर्ववत्, द्रव्यनिषीथं नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तं यद्रव्यं प्रच्छन्नं, क्षेत्रनिपीथं तु ब्रह्मलोकरिष्ठविमानपार्श्ववर्तिन्यः कृष्णराजयो यस्मिन् वा क्षेत्रे तद्व्याख्यायते, कालनिषीर्थ कृष्णरजन्यो यत्र वा काले निषीर्थ व्या निशीथनिधीषयोः प्राकृते एकेन निसीधशब्देन वाच्यत्वात् एवं निक्षेपवर्णनं तथा च निषीपिका निशीथिकेयुभयमपि संमतमभिधानयोः । द्वितीया चूलिकाया: द्वितीया सप्तसप्तिका- 'निषिधिका-विषयक' ~530~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy