SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [३], उद्देशक [३], मूलं [११८],नियुक्ति: [२१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: श्रीआचा- राङ्गवृत्तिः (शी०) शीतो०३ उद्देशकः३ प्रत सूत्रांक [११८] ॥१६९ दीप 4% ARCANA मोक्ष्यसि, एवमात्मा कर्मणां उच्चालयिताऽऽत्मनो मित्रं भवति । अपि च-पुरिसा' इत्यादि, हे पुरुष! सो हितः | सत्यः-संयमस्तमेवापरब्यापारनिरपेक्षः समभिजानीहि-आसेवनापरिज्ञया समनुतिष्ठ, यदिवा सत्यमेव समभिजानीहिगुरुसाक्षिगृहीतप्रतिज्ञानिर्वाहको भव, यदिवा सत्यः-आगमस्तसरिज्ञानं च मुमुक्षोस्तदुक्तप्रतिपालनं । किमर्थमेतदिति चेदाह-सच्चस्से'त्यादि, सत्यस्य-आगमस्याज्ञयोपस्थितः सन् मेधावी 'मारं' संसारं तरति, किंच-'सही'त्यादि, स[हितो-ज्ञानादियुक्तः सह हितेन वा युक्तः सहितः 'धर्म' श्रुतचारित्राख्यं 'आदाय' गृहीत्वा, किं करोतीत्याह-श्रेयः'। पुण्यमात्महितं वा सम्यग-अविपरीततयाऽनुपश्यति समनुपश्यति । उक्तोऽप्रमत्तः तद्गुणाच, तद्विपर्ययमाह दुहओ जीवियस्स परिवंदणमाणणपूयणाए, जंसि एगे पमायंति (११९) द्विधा-रागद्वेषप्रकारद्वयेनात्मपरनिमित्तमैहिकामुष्मिकार्थे वा यदिवा द्वाभ्यां-रागद्वेषाभ्यां हतो द्विहतो दुष्टं हतो वा दुर्हतः, स किं कुयाद् ?-जीवितस्य कदलीगर्भनिःसारस्य तडिल्लतासमुल्लसितचञ्चलस्य परिवन्दनमाननपूजनार्थं हिंसादिषु प्रवर्तते, परिवन्दन-परिसंस्तवस्तदर्थमाचेष्टते, लावकादिमांसोपभोगपुष्टं सर्वाङ्गोपाङ्गसुन्दरमालोक्य मां जनाः सुखमेव परिवन्दिप्यन्ते, श्रीमान् जीयास्त्वं बहूनि वर्षशतसहस्राणीत्येवमादि परिवन्दनं, तथा माननार्थं कर्मोपचिनोति, दृष्टीरसवलपराक्रमं मामन्येऽभ्युत्थानविनयासनदानाञ्जलिप्रग्रहर्मानयिष्यन्तीत्यादि माननं, तथा पूजनार्थमपि प्रवर्त्तमानाः कर्मास्रवरात्मानं भावयन्ति, मम हि कृतविद्यस्योपचितद्रव्यप्राग्भारस्य परो दानमानसत्कारप्रणामसेवाविशेषैः पूजा अनुक्रम [१३१] का॥१६९ ~534
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy