________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [४], उद्देशक [१], मूलं [१३३], नियुक्ति: [३१४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१३३]
दीप अनुक्रम [४६७]
भाषैव, यथा कपालावस्थायां घटोऽघट इति, तदनेन प्रागभावप्रध्वंसाभावी शब्दस्यावेदिताविति ॥ इदानी चतसृणां भाषाणामभाषणीयामाह-स भिक्षु- पुनरेवं जानीयात्, तद्यथा-सत्यां १ मृपा २ सत्यामृषाम् ३ असत्यामृषा ४, तत्र मृषा सत्यामृषा च साधूनां तावन्न वाच्या, सत्याऽपि या कर्कशादिगुणोपेता सा न बाच्या, तां च दर्शयति-सहावद्येन वर्चत इति सावद्या तां सत्यामपि न भाषेत, तथा सह क्रियया-अनर्थदण्डप्रवृत्तिलक्षणया वर्तत इति सक्रिया तामिति तथा 'कर्कशां' चविताक्षरां तथा 'कटुका चित्तोद्वेगकारिणी तथा 'निष्ठुरां हक्काप्रधानां 'परुषां' मर्मोद्घाटनपराम् |'अण्हयकरि'न्ति कर्माश्रवकरीम्, एवं छेदनभेदनकरी यावदपद्रावणकरीमित्येवमादिकां 'भूतोपघातिनी प्राण्युपताप
कारिणीम् 'अभिकारच' मनसा पर्यालोच्य सत्यामपि न भाषेतेति ॥ भाषणीयां त्वाह-स भिक्षुर्या पुनरेवं जानीयात्, हतद्यथा-या च भाषा सत्या 'सूक्ष्मे ति कुशाग्रीयया बुद्ध्या पर्यालोच्यमाना मृषाऽपि सत्या भवति यथा सत्यपि मृगदर्शने
लुब्धकादेरपलाप इति, उक्तञ्च-"अलिअंन भासिअव्वं अस्थि हु सच्चंपि जंन वत्तव्वं । सच्चंपि होइ अलिअंज | परपीडाकरं वयणं ॥ १॥" या चासत्यामृषा-आमन्त्रण्याज्ञापनादिका तां तथाप्रकारां भाषामसावद्यामक्रियां यावदभूतोपघातिनी मनसा पूर्वम् 'अभिकारच' पर्यालोच्य सर्वदा साधुर्भाषां भाषेतेति । किञ्च
से भिक्खू वा पुमं आमंतेमाणे आमंतिए वा अपडिसुणेमाणे नो एवं वइजा होलित्ति वा गोलित्ति वा वसुलेत्ति वा कुपक्षेत्ति वा पडदासिति वा साणेत्ति वा तेणित्ति वा चारिएत्ति वा माईत्ति वा मुसाबाइत्ति वा, एयाई तुम ते जणगा वा, १ भलीक न भाषितव्यं अस्लोव सत्यमपि गन्न बक्तव्यम् । सल्यमपि भवसलीके यत् परपीडाकर वचनम् ॥ १॥
For P
OW
~490~