SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], चुडा [१], अध्ययन [३], उद्देशक [१], मूलं [११२], नियुक्ति: [३१२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत श्रीआचा- रावृत्तिः (शी०) श्रुतस्कं०२ चूलिका १ ईयष० ३ उद्देशः १ सूत्रांक [११२] ॥३७६॥ दीप अनुक्रम [४४६] हित एषणीयो भवति तथाभूतो दुर्लभ इति, यत्र च ग्रामनगरादौ बहवः श्रमणब्राह्मणकृपणवणीमगादय उपागता अपरे चोपागमिष्यन्ति, एवं च तत्रात्याकीणों वृत्तिः, वर्तनं-वृत्तिः, सा च भिक्षाटनस्वाध्यायध्यानवहिर्गमनकार्येषु जनसङ्क- लत्वादाकीर्णा भवति, ततश्च न प्राज्ञस्य तत्र निष्क्रमणप्रवेशी यावचिन्तनादिकाः क्रिया निरुपद्रवाः संभवन्ति, स साधुरेवं ज्ञात्वा न तत्र वर्षाकालं विध्यादिति । एवं च व्यत्ययसूत्रमपि व्यत्ययेन नेयमिति ॥ साम्प्रतं गतेऽपि वर्षा- काले यदा यथा च गन्तव्यं तदधिकृत्याह अह पुणेवं जाणिजा-चत्तारि मासा वासावासाणं वीइक्ता हेमंताण य पंचदसरायकप्पे परिखुसिए, अंतरा से मग्गे बहुपाणा जाब ससंताणगा नो जत्व बहवे जाव उवागमिस्संति, सेवं नचा नो गामाणुगामं दूइजिजा । अह पुणेवं जाणिजा चत्तारि मासा० कप्पे परिचुसिए, अंतरा से मग्गे अप्पंडा जाव ससंताणगा बहवे जत्थ समण उवागमिस्संति, सेव नचा तओ संजयामेव० दूइजिज ॥ (सू० ११३) | अधैवं जानीयाद् यथा चत्वारोऽपि मासाः प्रावृटकालसम्बन्धिनोऽतिकान्ताः, कार्तिकचातुर्मासिकमतिक्रान्तमित्यर्थः, तत्रोत्सर्गतो यदि न वृष्टिस्ततः प्रतिपद्येवान्यत्र गत्वा पारणकं विधेयम्, अथ वृष्टिस्ततो हेमन्तस्य पञ्चसु दशसु वा दिनेषु 'पर्युषितेषु' गतेषु गमनं विधेयं, तत्रापि यद्यन्तराले पन्थानः साण्डा यावत्ससन्तानका भवेयुर्न च तत्र बहवः श्रमणब्राहाणादयः समागताः समागमिष्यन्ति वा ततः समस्तमेव मार्गशिरं यावत्तत्रैव स्थेय, तत ऊ यथा तथाऽस्तु न स्थेयमिति ।। एवमेतद्विपर्ययसूत्रमयुक्तार्थम् ॥ इदानी मार्गयतनामधिकृत्याह ॥३७६॥ ~467~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy