________________
आगम (०१)
[भाग-2| “आचार"मूलं ”-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [२], उद्देशक [१], मूलं [६३...], नियुक्ति : [३०१] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [६३]]
दीप
'यदा' यस्मिन् काले वर्तते सा तस्थ षड्भावरूपा भावशय्या, शयनं शय्या स्थितिरितिकृत्वा, तथा ख्यादिकायगतो गर्भत्वेन स्थितो यो जीवस्तस्य ख्यादिकाय एव भावशय्या, यतः स्यादिकाये सुखिते दुःखिते सुप्ते उत्थिते वा तादृगवस्थ एव तदन्तर्षी जीवो भवति, अतः कायविषया भावशय्या द्वितीयेति ॥ अध्ययनार्थाधिकारः सर्वोऽपि शय्याविषयः॥ उद्देशार्थाधिकारप्रतिपादनाय नियुक्तिकृदाह
सब्वेवि य सिजविसोहिकारगा तहवि अस्थि उ विसेसो । उद्देसे उद्देसे वुच्छामि समासओ किंचि ॥३०२|| 'सर्वेऽपि' प्रयोऽप्युदेशका यद्यपि शय्याविशुद्धिकारकास्तथाऽपि प्रत्येकमस्ति विशेषस्तमहं लेशतो वक्ष्य इति ॥ एतदेवाहउग्गमदोसा पढमिल्लयंमि संसत्तपञ्चवाया य१। बीयंमि सोअवाई बहुविहसिज्जाविवेगो २ य ॥ ३०३ ॥
तत्र प्रथमोद्देशके वसतेरुङमदोषा:-आधाकर्मादयस्तथा गृहस्थादिसंसक्तप्रत्यपायश्च चिन्त्यन्ते ?, तथा द्वितीयोदेशक | शौचवादिदोषा बहुप्रकारः शय्याविवेकश्च-त्यागश्च प्रतिपाद्यत इत्ययमर्थाधिकारः २॥
तइए जयंतछलणा सज्झायस्सऽणुवरोहि जइयब्वं । समविसमाईएसु य समणेणं निजरवाए ३ ॥ ३०४॥ | तृतीयोद्देशके यतमानस्य-उद्गमादिदोषपरिहारिणः साधोर्या छलना स्यात्तत्सरिहारे यतितव्यं, तथा स्वाध्यायानुपरोधिनि समविषमादौ प्रतिश्रये साधुना निर्जरार्थिना स्थातव्यमित्ययमर्थाधिकारः ३॥ गतो निर्युक्त्यनुगमः, अधुना सूत्रानुगमे लसूत्रमुचारयित्तव्यं, तच्चेदम्
अनुक्रम [३९७]
X
प्रथम चूलिकाया: द्वितीय-अध्ययनं "शयैषणा", प्रथम-उद्देशक: आरब्ध:
~434~