SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [५० ] दीप अनुक्रम [३८४] [भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [९], मूलं [५० ], निर्युक्ति: [२९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः श्रीआचाराङ्गवृत्तिः (शी०) ॥ ३५१ ॥ णीमगपिण्डः ५, सूक्ष्मेतरचिकित्सयाऽवाप्तश्चिकित्सा पिण्डः ६, एवं क्रोधमानमायालो भैरवाप्तः क्रोधादिपिण्डः १०, भिक्षादानात्पूर्व पश्चाद्वा दातुः 'कर्णायते भवानि'त्येवं संस्तवादवाप्तः पूर्वपश्चात्संस्तवपिण्डः ११, विद्ययाऽवाप्तो विद्यापिण्डः १२, तथैव मन्त्रजापावाप्तो मन्त्रपिण्डः १३, वशीकरणाद्यर्थ द्रव्यचूर्णादवाप्तवर्णपिण्डः १४, योगाद्-अञ्जनादेरवातो योगपिण्डः १५, यदनुष्ठानाद्गर्भशातनादेर्मूलमवाप्यते तद्विधानादवाधो मूलपिण्डः १६, तदेवमेते साधुसमुत्थाः षोडशोत्पादनादोषाः । ग्रासैषणादोषाश्चामी - “संजोअणा १ पमाणे २ इंगाले ३ धूम ४ कारणे ५ चेव ।" तत्राहारलोलुपतया दधिगुडादेः संयोजनां विदधतः संयोजनादोषः १, द्वात्रिंशत्कवलप्रमाणातिरिक्तमाहारमाहारयतः प्रमाणदोषः २ तथाssहाररागाद्गार्थ्याद् भुञ्जानस्य चारित्राङ्गारत्वापादनादङ्गारदोषः ३, तथाऽन्तप्रान्तादावाहारद्वेषाञ्चारित्रस्याभिधूमनाजूप्रदोषः ४, वेदनादिकारणमन्तरेण भुञ्जानस्य कारणदोषः ५, इत्येवं वेषमात्रावासं ग्रासैषणादिदोषरहितः सन्नाहारमा| हारयेदिति । अथ कदाचिदेवं स्यात्, सः 'परः' गृहस्थः कालेनानुप्रविष्टस्यापि भिक्षोराधाकर्मिकमशनादि विदध्यात्, तच्च कश्चित्साधुस्तूष्णीभावेनोलेक्षेत, किमर्थम्?, आहृतमेव प्रत्याख्यास्यामीति, एवं च मातृस्थानं संस्पृशेत्, न चैवं कुर्यात्, यथा च कुर्यात्तद्दर्शयति-स पूर्वमेव 'आलोकयेत्' दत्तोपयोगो भवेत्, दृष्ट्वा चाहारं संस्क्रियमाणमेवं वदेद्यथा अमुक ! इति वा भगिनि ! इति वा न खलु मम कल्पत आधाकर्मिक आहारो भोक्तुं वा पातुं वाऽतस्तदर्थं यलो न विधेयः, अथैवं वदतोऽपि पर आधाकर्मादि कुर्यात्ततो लाभे सति न प्रतिगृह्णीयादिति ॥ Eucation International For Parts Only ~417~ श्रुतस्कं० २ चूलिका १ पिण्डैष०१ उद्देशः ९ ।। ३५१ ।।
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy