________________
आगम
(०१)
प्रत
सूत्रांक
[४८]
दीप
अनुक्रम
[३८२]
[भाग-2] “आचार”मूलं ” अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [८], मूलं [४८], निर्युक्ति: [२९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचा
राङ्गवृत्तिः (शी०)
॥ ३४९ ॥
पिण्डैष०१ उद्देशः ८
स्मादग्रादेरानीयान्यत्र प्ररोहितानि किन्तु तत्रैवाग्रादौ जातानि तथा 'तक्कलिमरथरण वा' तकली-कन्दली 'पण' इति वा- २ श्रुतस्कं० २ | क्यालङ्कारे तन्मस्तकं- तन्मध्यवर्त्ती गर्भः, तथा 'कन्दलीशीर्ष' कन्दलीस्तवकः, एवं नालिकेरादेरपि द्रष्टव्यमिति, अथवा १ चूलिका १ कन्दल्यादिमस्तकेन सदृशमन्यद्यच्छिन्नानन्तरमेव ध्वंसमुपयाति तत्तथाप्रकारमन्यदामम्-अशस्त्रपरिणतं न प्रतिगृह्णीयादिति ॥ स भिक्षुर्यत्पुनरेवं जानीयात्, तद्यथा-इधुं वा 'काणगं'ति व्याधिविशेषात्सच्छिद्रं, तथा 'अंगारकितं' विवर्णीभूतं, तथा 'सम्मिश्रं' स्फुटितत्वकू 'विगदूमियं'ति वृकैः शृगालैर्वा ईषद्भक्षितं, न ह्येतावता रन्धाद्युपद्रवेण तत्प्रासुकं भवतीति सूत्रोपन्यासः, तथा वेत्रानं 'कंदलीऊसुयंति कन्दलीमध्यं, तथाऽन्यदप्येवंप्रकार मामम्-अशस्त्रोपहतं न प्रतिगृह्णीयादिति ॥ एवं लशुनसूत्रमपि सुगमं, नवरं 'चोअगं'ति कोशिकाकारा लशुनस्य बाह्यत्वकू, सा च यावत्सार्द्रा तावत्सचित्तेति । 'अच्छियं'ति वृक्षविशेषफलं 'तेंदुयं'ति टेम्बख्यं 'वेलुयं'ति बिल्वं 'कासवनालियंति श्रीपर्णीफलं, कुम्भीपक्कशन्द: प्रत्येकमभिसंबध्यते, एतदुक्तं भवति-यदच्छिकफलादिगर्त्तादावप्राष्ठपाककालमेव बलात्पाकमानीयते तदामम्- अपरिणतं न प्रतिगृह्णीयादिति ॥ 'कणम्' इति शाल्यादेः कणिकास्तत्र कदाचिन्नाभिः संभवेत् 'कणिककुण्डं' कणिकाभिर्मिश्राः कुक्कुसाः 'कणपूयलिअं'ति कणिकाभिर्मिश्राः पूपलिकाः कणपूपलिकाः, अत्रापि मन्दपक्वादौ नाभिः संभाव्यते, शेषं सुगमं यावत्तस्य भिक्षोः 'सामग्र्यं' सम्पूर्णो भिक्षुभाव इति ॥ प्रथमस्याष्टमोदेशकः समाप्तः ॥
For Parts Only
~413~
॥ ३४९ ॥
war