________________
आगम
(०१)
प्रत
सूत्रांक
[२६]
दीप
अनुक्रम
[ ३६० ]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [५], मूलं [२६], निर्युक्ति: [२९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्री आचाराङ्गवृत्तिः (शी०)
॥ ३३७ ॥
पतं वा कट्टु वासकरं वा जाइज्जा, जाइत्ता से तमायाय एगतमवकमिज्जा २ अहे सामथंडिलंसि वा जाव अन्नयरंसि वा तहपणारंसि पडिलेहिय पडिलेहिय पमजिय पमजिय तो संजयामेव आमजिज वा जाब पचाविन्द वा ।। (सू० २६)
स भिक्षुभिक्षार्थं गृहपतिकुलं पाटकं रथ्यां ग्रामादिकं वा प्रविष्टः सन् मार्ग प्रत्युपेक्षेत, तत्र यदि 'अन्तरा' अन्तराले 'से' तस्य भिक्षोर्गच्छत एतानि स्युः, तद्यथा - 'वप्राः' समुन्नता भूभागा ग्रामान्तरे वा केदाराः, तथा परिखा वा प्राकारा वा गृहस्य पत्तनस्य या, तथा तोरणानि वा, तथाऽर्गला वाऽर्गलपाशका वा यत्रार्गलाऽग्राणि निक्षिपन्ते, एतानि चान्तराले ज्ञात्वा प्रक्रम्यतेऽनेनेति प्रक्रमो मार्गस्तस्मिन्नन्यस्मिन् सति संयत एव तेन 'पराक्रमेत' गच्छेत्, नैवर्जुना गच्छेत्, किमिति?, यतः 'केचली' सर्वज्ञो ब्रूयाद् 'आदानं' कर्मादानमेतत् संयमात्मविराधनातः, तामेव दर्शयति- 'स' भिक्षुः 'तत्र' तस्मिन् वप्रादियुक्ते मार्गे 'पराक्रममाणः' गच्छन् विषमत्वान्मार्गस्य कदाचित् 'प्रचलेत्' कम्पेत् प्रस्खलेद्वा तथा प्रपतेद्वा स तत्र प्रस्खलन प्रपतन् वा षण्णां कायानामन्यतमं विराधयेत्, तथा तत्र 'से' तस्य काय उच्चारेण वा प्रस्रवणेन वा श्लेष्मणा वा सिङ्घानकेन वा वान्तेन वा पित्तेन वा पूतेन वा शुक्रेण वा शोणितेन वा उपलिप्तः स्यादित्यत एवंभूतेन पथा न गन्तव्यम्, अथ मार्गान्तराभावात्तेनैव गतः प्रस्खलितः सन् कर्दमाद्युपलिप्तकायो नैवं कुर्यादिति दर्शयति स यतिस्तथाप्रकारम्-अशुचिकर्दमाद्युपलितं कायमनन्तर्हितया - अव्यवहितया पृथिव्या तथा 'सस्निग्धया' आर्द्रया एवं सरजस्कया वा, तथा 'चित्तवत्या' सचित्तया शिलया, तथा चित्तवता 'लेलुना' पृथिवीशकलेन वा, एवं कोला-घुणास्तदावासभूते दारुणि जीवप्रतिष्ठिते साण्डे सप्राणिनि यावत्ससन्तानके 'नो' नैव सकृदामृज्यान्नापि पुनः पुनः
For Parts Only
~389~
श्रुतस्कं० २ चूलिका १ पिण्डैप०१
उद्देशः ५
॥ ३३७ ॥