________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [३], मूलं [१९], नियुक्ति : [२९७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
सूत्राक
[१९]
दीप अनुक्रम [३५३]
स भिक्षुर्गच्छनिर्गतो जिनकल्पिकादिगृहपतिकुल प्रवेष्टुकामः सर्वे' निरवशेष भण्डक' धर्मोपकरणम् 'आदाय' गृहीत्वा गृहपतिकुलं पिण्डपातप्रतिज्ञया प्रविशेद्धा ततो निष्कामेद्वा । तस्य चोपकरणमनेकधेति, तद्यथा-"दुग तिग चक पंचग नव दस एकारसेव वारसहे"त्यादि । तत्र जिनकल्पिको द्विविधः-छिद्रपाणिरच्छिद्रपाणिच, तत्राच्छिद्रपाणे शक्त्यनुरूपाभिग्रहविशेषाद् द्विविधमुपकरणं, तद्यथा-रजोहरणं मुखवस्त्रिका च, कस्यचित्त्वक्त्राणार्थ क्षौमपटपरिग्रहात्रिविधम् , अपरस्योदकबिन्दुपरितापादिरक्षणार्थमौर्णिकपटपरिग्रहाच्चतुर्की, तथाऽसहिष्णुतरस्य द्वितीयक्षौमपटपरिग्रहासञ्चधेति । छिद्रपाणेस्तु जिनकल्पिकस्य सप्तविधपात्रनिर्योगसमन्वितस्य रजोहरणमुखवस्तिकादिग्रहणक्रमेण यथायोगं नवविधो दशविध एकादशविधो द्वादशविधश्चोपधिर्भवति, पात्रनिर्योगश्च-"पत्तं १ पत्ताबंधो २ पायट्ठवणं ३ च पायकेसरिया ४ । पडलाइ ५ रयत्ताणं ६ च गोच्छओ ७ पायनिज्जोगो ॥१॥" अन्यत्रापि गच्छता सर्वमुपकरणं गृहीत्वा गन्तव्यमित्याह-स भिक्षु मादेर्बहिर्विहारभूमि स्वाध्यायभूमि वा तथा 'विचारभूमि विष्ठोत्सर्गभूमि सर्वमुपकरणमादाय प्रविशेन्निष्कामेद्वा, एतद्वितीय, एवं ग्रामान्तरेऽपि तृतीयं सूत्रम् ॥ साम्प्रतं गमनाभावे निमित्तमाह
से मिक्खू० अह पुण एवं जाणिज्जा-तिबदेसियं वासं वासेमाणं पहाए तिव्वदेसियं महियं संनिचयमाणं पेहाए महवाएण वा रयं समुदुर्थ पहाए तिरिच्छसंपाइमा वा तसा पाणा संथडा संनिचयमाणा पेहाए से एवं नया नो सव्वं भंडग१ पात्रं पात्रबन्धः पात्रस्थापनं च पात्रकेशरिका । पटलानि रजखाणं च गोच्छकः पात्रनियोगः ॥ १॥
कर
~380~