________________
आगम
(०१)
प्रत
सूत्रांक
[१३]
दीप
अनुक्रम
[ ३४७]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ ( मूलं + निर्युक्ति:+वृत्तिः)
श्रुतस्कंध [२.], चुडा [१], अध्ययन [१], उद्देशक [२], मूलं [१३], निर्युक्ति: [२९७] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
रकं वा संस्तारयेत्, गृहस्थश्चानेनाभिसन्धानेन संस्कुर्याद्यथैषः - साधुः शय्यायाः संस्कारे विधातव्ये 'विलुंगयामो' ति निर्ग्रन्थः अकिञ्चन इत्यतः स गृहस्थः कारणे संयतो वा स्वयमेव संस्कारयेदित्युपसंहरति-तस्मात् 'तथाप्रकाराम्' अनेकदोषदुष्टां सङ्घडिं विज्ञाय सा पुरःसङ्घडिः पश्चात्सङ्घडिर्वा भवेत्, जातनामकरणविवाहादिका पुरःसङ्घडिः तथा मृतकसङ्घडिः पश्चात्सङ्घडिरिति यदिवा पुरः- अग्रतः सङ्घडिर्भविष्यति अतोऽनागतमेव यायात्, वसतिं वा गृहस्थः संस्कुर्यात, वृत्ता वा सङ्घडिरतोऽत्र तच्छेषोपभोगाय साधवः समागच्छेयुरिति, सर्वथा सर्वो सङ्घडि सङ्घडिप्रतिज्ञया 'नोऽभिसंधारयेत्' न पर्यालोचयेद्गमनक्रियामिति, एवं तस्य भिक्षोः सामग्र्यं सम्पूर्णता भिक्षुभावस्य यत्सर्वथा सङ्घ डिवर्जनमिति ॥ प्रथमस्य द्वितीयः समाप्तः ॥
उक्त द्वितीयः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः - इहानन्तरोद्देशके दोषसंभवात्सङ्घडिगमनं निषिद्धं, प्रकारान्तरेणापि तद्गतानेव दोषानाह
से एगइओ अन्नयरं संखार्ड आसित्ता पिबित्ता छट्टिज वा वमिज वा भुत्ते वा से नो सम्मं परिणमित्रा अन्नयरे वा से दुक्खे रोगार्थके समुपजिजा केवली बूया आयाणमेयं ॥ ( सू० १४ ) इह खलु भिक्खू गाहावईहिं वा गाहावईणीहिं वा परिवायएहि वा परिवाईया हिं वा एगळं सद्धिं सुंडं पाउं भो वइमिस्सं हुरत्या वा उवस्तयं पडिलेहेमाणो नो लभिना तमेव उवस्यं संमिस्सीभावमावजिज्जा, अन्नमणे वा से मत्ते विप्परिवासियभूए इत्थिविग्ग वा किलीने वा तं भिक्खुं
For Parata Lise Only
प्रथम चूलिकायाः प्रथम अध्ययनं “ पिण्डैषणा”, तृतीय-उद्देशक: आरब्धः
~374~