________________
आगम
(०१)
प्रत
सूत्रांक
[२२६/
गाथा
१७]
दीप
अनुक्रम
[३३४]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ - ], उद्देशक [-], मूलं [२२६...], निर्युक्तिः [१०] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
समुद्दिस्स कीयं पामिच्च" मित्यादि, एतानि सर्वाण्यपि सूत्राण्याश्रित्यैकादश पिण्डेपणा निर्यूढाः, तथा तस्मिन्नेव द्वितीयाध्ययने पञ्चमोद्देशके सूत्रम् - "से वत्थं पडिग्गहं कंबलं पायपुंडणं उग्गहं च कडासण" मिति, तत्र वखकम्बलपादपुञ्छनग्रहणाद् वस्त्रैषणा निर्यूढा, पतग्रहपदात् पात्रैषणा निर्यूढा, अवग्रह इत्येतस्मादवग्रहप्रतिमा निर्यूढा, कटासनमित्येतस्माच्छय्येति, तथा पञ्चमाध्यायनावन्त्याख्यस्य चतुर्थोद्देशके सूत्रम् - "गामाणुगामं दूइजमाणस्स दुजायं दुष्परिकंतं" इत्यादिनेर्या सङ्क्षेपेण व्यावर्णितेत्यत एव ईर्याध्ययनं निर्यूहम्, तथा षष्ठाध्ययनस्य धूताख्यस्य पचमोद्देशके सूत्रम् - " आइक्खइ बियर किइ धम्मकामी” त्येतस्माद्भाषाजाताध्ययनमाकृष्टमित्येवं विजानीयास्त्वमिति । तथा महापरिज्ञाध्ययने सप्तोदेशकास्तेभ्यः प्रत्येकं सप्तापि सकका निर्यूढाः, तथा शस्त्रपरिज्ञाध्ययनाद्भावना निर्यूढा, तथा धूताध्ययनस्य द्वितीयचतुर्थोदेशकाभ्यां विमुक्त्यध्ययनं निर्यूडमिति, तथा 'आचारप्रकल्पः' निशीथः, सच प्रत्याख्यानपूर्वस्य यतृतीयं वस्तु तस्यापि यदाचाराख्यं विंशतितमं प्राभृतं ततो निर्यूड इति ॥ ब्रह्मचर्याध्ययनेभ्य आचाराम्राणि निर्यूढान्यतो निर्यूहनाधिकारादेव तान्यपि शस्त्रपरिज्ञाध्ययनान्निर्यूढानीति दर्शयति
अबोगडो उ भणिओ सत्यपरिन्नाय दंडनिक्खेवो । सो पुण विभज्नमाणो तहा तहा होइ नायव्वो ॥ ११ ॥ 'अव्याकृतः' अव्यक्तोऽपरिस्फुट इतियावत् 'भणितः' प्रतिपादितः कोऽसी -- 'दण्ड निक्षेपः' दण्डः - प्राणिपीडालक्षणस्तस्य निक्षेपः-परित्यागः संयम इत्यर्थः, स च शस्त्रपरिज्ञायामव्यक्तोऽभिहितो यतस्तेन पुनः विभज्यमानः अष्टस्वप्यध्ययनेष्वसावेव तथा तथा अनेकप्रकारो ज्ञातव्यो भवतीति ॥ कथं पुनरयं संयमः सङ्क्षेपाभिहितो विस्तार्यते ? इत्याह
Eucation International
For Pernal Use On
wor
अत्र निर्युक्तेः क्रमस्य मुद्रण-शुद्धिः न दृश्यते ......
[यहाँ निर्युक्ति के क्रममें ४, ५, ६, इत्यादि लिखा है, ये गलती है, ये क्रमांक- २८५, २८६, २८७.. इत्यादि होना चाहिए क्योंकि पिछला निर्युक्ति क्रम २८४ था, और आगे जाकर इसी सम्पादनमें द्वितीय अध्ययन से नियुक्ति गाथा क्रम २९८ से आरम्भ होता है ।
~354~