________________
आगम
(०१)
प्रत
गाथा
[१७]
दीप
अनुक्रम [३३४]
99
[भाग-2] “आचार” मूलं - अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [४], मूलं [२२६/गाथा १७],निर्युक्ति: [२८४]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
| शिष्यः पृच्छति - किमिदानीं तत्त्वमस्तु ?, आचार्य आह- नन्वभिहितमेव विस्मरणशीलो देवानांप्रियो यथा ज्ञानक्रियानयाँ परस्परसव्यपेक्षौ सकलकर्मकन्दोच्छेदात्मकस्य मोक्षस्य कारणभूताविति, प्रदीप्त समस्त नगरान्तर्वर्त्तिपरस्परोपकार्यो|पकारकभावावाप्तानाबाधस्थानौ पवन्धाविवेति, तथा चोक्तम्- " संजोयसिद्धीऍ फलं वदन्ती' त्यादि, स्वतन्त्रप्रवृत्तौ तु न विवक्षितकार्य साधयत इत्येतच्च प्रसिद्धमेव यथा 'हयं णाण'मित्यादि, आगमेऽपि सर्वनयोपसंहारद्वारेणायमेवार्थोऽभिहितो, यथा- 'सैब्वेसिंपि णयाणं बहुविह्वत्तवयं णिसामेत्ता । तं सच्चणयविसुद्धं जं चरणगुणडिओ साहू ॥ १ ॥ त्ति', तदेतदाचाराङ्गं ज्ञानक्रियात्मकं अधिगतसम्यकूपधानां कुश्रुतसरित्कषायझपकुलाकुलं प्रियविप्रयोगाप्रियसंप्रयोगाद्यनेक व्यसनोपनिपात महावर्त्त मिथ्यात्वपवनेरणोपस्थापितभयशोकहा स्यरत्यरत्यादितरङ्गं विश्वसावेलाचितं व्याधिशतनक्रचक्रालयं महागम्भीरं भयजननं पश्यतां त्रासोत्पादकं महासंसारार्णवं साधूनामुत्तितीर्षतां तदुत्तरणसमर्थमव्याहतं यानपात्रमिति, अतो मुमुक्षुणाऽऽत्यन्तिकै कान्तिकानाबाधं शाश्वतमनन्तमजरममरमक्षयमन्यावाधमुपरतसमस्तद्वन्द्वं सम्यग्दर्शनज्ञानत्रतचरण क्रियाकलापोपेतेन परमार्थपरमकार्यमनुत्तमं मोक्षस्थानं लिप्सुना समालम्बनीयमिति तदात्मकस्य ब्रह्मचर्याख्यश्रुतस्कन्धस्य निर्वृतिकुलीनश्री शीलाचार्येण तत्त्वादित्या परनाम्ना वाहरिसाधुसहायेन कृता टीका परिसमाप्तेति । श्लोकतो ग्रन्थमानम् ॥ ९७६ ॥
१] संयोगसिद्धेः फलं वदन्ति (नैवैकचक्रेण रथः प्रयाति अन्य पक्ष बने समेल तो संप्रयुक्तो नगरं प्रविष्टौ ॥ १ ॥ २ इतं ज्ञानं धामपि नयानां बहुविधयां निशम्य तत्सर्व नवविशुद्धं यमचरणगुणस्थितः साधुः ॥ १ ॥
Ja Education intemational
For at Use Only
~348~