SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ आगम (०१) [भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [९], उद्देशक [४], मूलं [२२६/गाथा-१७],नियुक्ति: [२८४] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत गाथा [१७] दीप अनुक्रम [३३४] 440404GCACCORDCLOCAL च्यन्ते, अधिकृताचाराङ्गस्य ज्ञानक्रियात्मकतयोभयरूपत्वात् ज्ञानक्रियाधीनत्वान्मोक्षस्य तदर्थं च शास्त्रप्रवृत्तेरिति भावः, अत्र च परस्परतः सव्यपेक्षावेव ज्ञानक्रियानयो विवक्षितकार्यसिद्धयेऽलं नान्योऽन्यनिरपेक्षावित्येतत्पश्यते, तत्र ज्ञाननयाभिप्रायोऽयम्-यथा ज्ञानमेव प्रधानं न क्रियेति, समस्तहेयोपादेयहानोपादानप्रवृत्तेानाधीनत्वात् , तथा हि-सुनिश्चितात् सम्यग्ज्ञानात्प्रवृत्तोऽर्थक्रियार्थी न विसंवाद्यते, तथा चोक्तम्-"विज्ञप्तिः फलदा पुंसां, न क्रिया फलदा मता । मिथ्याज्ञानात् प्रवृत्तस्य, फलासंवाददर्शनाद् ॥ १॥" इत्यादि, संविनिष्ठत्वाच्च विषयव्यवस्थितीनां तत्पूर्वकसकलदुःखपहीणत्वाचान्वयव्यतिरेकदर्शनाच्च ज्ञानस्य प्राधान्यं, तथाहि-ज्ञानाभावेऽनर्थपरिहाराय प्रवत्तमानोऽपि तत्करोति | येन नितरां पतङ्गवदनर्थेन संयुज्यते, ज्ञानसद्भावे च समस्तानप्यानर्थसंशयांश्च यथाशक्तितः परिहरति, तथा चागमः | ४-पडमं नाणं तओ' इत्यादि, एवं तावत्क्षायोपशमिकं ज्ञानमाश्रित्योक्तं, क्षायिकमप्याश्रित्य तदेव प्रधान, यस्माद्भगवतः प्रणतसुरासुरमुकुटकोटिवेदिकाङ्कितचरणयुगलपीठस्य भवाम्भोधितटस्थस्य प्रतिपन्नदीक्षस्य त्रिलोकबन्धोस्तपश्चरणवतोऽपि न तावदपवर्गप्राप्तिः सञ्जायते यावजीवाजीवाद्यखिलवस्तुपरिच्छेदरूपं घनघातिकर्मसंहतिक्षयात्केवलज्ञानं नोत्पन्नमित्यतो ज्ञानमेव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वादिति । अधुना क्रियानयाभिप्रायोऽभिधीयते, तद्यथा-क्रियैव प्रधानमैहिकामुष्मिकफलप्राप्तिकारणं, युक्तियुक्तत्वात्, यस्माद्दर्शितेऽपि ज्ञानेनाकियास-| मर्थेऽथे प्रमाता प्रेक्षापूर्वकारी यदि हानोपादानरूपां प्रवृत्तिक्रियां न कुर्यात् ततो ज्ञानं विफलतामियात्, तदर्थत्वात्त-1 खेति, यस्य हि यदर्थ प्रवृत्तिस्तत्तस्य प्रधानमितरदप्रधानमिति न्यायात्, संविदा विषयव्यवस्थानस्याप्यर्थक्रियार्थत्वास्क्रि ~346~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy