________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [६], मूलं [२२२],नियुक्ति: [२७५] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [२२२]
दीप अनुक्रम [२३५]
साकारं प्रत्याख्यानं, साकारप्रत्याख्यानस्यान्यस्मिन्नपिकाले जिनकल्पिकादेरसम्भवात, किं पुनर्यावरकथिकभक्तप्रत्याख्यानावसर इति, इत्वरं हि रोगातुरः श्रावको विधत्ते, तद्यथा-यद्यहमस्माद्रोगात् पञ्चषैरहोभिर्मुक्तः स्यां ततो भोक्ष्ये, नान्यथेत्यादि, तदेवमित्वरम्-इङ्गितमरणं धृतिसंहननादिबलोपेतः स्वकृतत्वग्वर्तनादिक्रियो यावजीवं चतुर्विधाहारनियम |
कुर्यादिति, उक्तं च-"पञ्चक्खइ आहारं चन्विहं णियमओ गुरुसमीवे । इंगियदेसंमि तहा चिवपि हु नियमओ कुमाणइ ॥१॥ उम्वत्तइ परिअत्तइ काइगमाईऽवि अप्पणा कुणइ । सबमिह अप्पणचित्रण अन्नजोगेण धितिबलिओ Pl२॥" तच्चेङ्गित्तमरणं किम्भूतं किम्भूतश्च प्रतिपद्यत इत्याह-'तद्' इङ्गितमरणं सद्भधो हितं सत्यं, सुगतिगमनावि
संवादनात्सर्वज्ञोपदेशाच्च सत्य-तथ्यं, तथा स्वतोऽपि सत्यं वदितुं शीलमस्येति सत्यवादी, यावज्जीवं यथोक्तानुष्ठानाद्यद थाऽऽरोपितप्रतिज्ञाभारनिर्वहणादित्यर्थः, तथा 'ओजः' रागद्वेषरहितः, तथा 'तीर्णः' संसारसागरं, भाविनि भूतवदुपचा
रात्तीर्णवत्तीर्ण इत्यर्थः, तथा 'छिन्ना' अपनीता 'कथं' कथमपि या 'कथा' रागकथादिका विकथारूपा येन स छिन्नकथंकथः, यदिवा कथमहमिद्भितमरणप्रतिज्ञा निर्वहिष्ये इत्येवरूपा या कथा सा छिन्ना येन स छिन्नकथंकथा, दुष्करानुष्ठान विधायी हि कथंकथी भवति, स तु पुनर्महापुरुषतया न व्याकुलतामियादिति, तथा आ-समन्तादतीव इताज्ञाता परिच्छिन्ना जीवादयोऽर्था येन सोऽयमातीतार्थः आदत्ताथों वा, यदिवाऽतीता:-सामस्त्येनातिक्रान्ताः अर्था:
१ प्रयाख्याति माहार चतुर्विध नियमाद् गुरुसमीपे । इङ्गितदेशे तथा चेष्टामपि निवमतः करोति ॥ ॥ उतते परिवर्तते कायिक्यायपि आत्मना करोति । & सर्वमिहात्मनैव नान्ययोगेन धृतिबलिकः ॥ २॥
~286