________________
आगम (०१)
[भाग-2] “आचार"मूलं ”-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [१], मूलं [१९६...],नियुक्ति: [२५७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
विमो०८ उद्देशकार
प्रत सूत्रांक [१९६]
राङ्गवृत्तिः
(शी०) ॥२६॥
मरणं पादपोपगमनं वा यथा भवति तथोच्यत इति गाथापञ्चकसमासार्थो, व्यासार्थस्तु प्रत्युद्देशकं वक्ष्यते । निक्षेपस्तु त्रिधा-ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्चेति, तत्रौघनिष्पन्ने निक्षेपेऽध्ययन, नामनिष्पन्ने तु विमोक्ष इति | नाम, तत्र विमोक्षस्य निक्षेपं चिकीर्षुः नियुक्तिकार आह
नामंठवणविमुक्खो दव्वे खित्ते य काल भावे य । एसो उ विमुक्खस्सा निक्खेवो छविहो होइ ॥२५८॥ | नामविमोक्षः स्थापनाविमोक्षो द्रव्यविमोक्षः क्षेत्रविमोक्षः कालविमोक्षो भावविमोक्षश्चेत्येवं विमोक्षस्य निक्षेपः षोढा भवतीति गाथासमासार्थः ॥ व्यासार्थप्रतिपादनाय तु सुगमनामस्थापनाव्युदासेन द्रव्यादिविमोक्षप्रतिपादनद्वारेणाह
दव्वविमुक्खो नियलाइएम खित्तंमि चारपाईसुं। काले चेइयमहिमाइएमु अणघायमाईओ ॥२५९ ॥ द्रव्यविमोक्षो द्वेधा-आगमतो नोआगमतश्च, आगमतो ज्ञाता तत्र चानुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरव्यतिरिक्को निगडादिकेषु विषयभूतेषु यो विमोक्षः स द्रव्यविमोक्षः, सुव्यत्ययेन वा पञ्चम्यर्थे सप्तमी, निगडादिभ्यो द्रव्येभ्यः सकाशाद्विमोक्षो द्रव्यविमोक्षः, अपरकारकवचनसम्भवस्तु स्वयमभ्यूद्यायोज्यः, तद्यथा-द्रव्येण द्रव्यात् सचित्ताचित्तमिश्राद्विमोक्ष इत्यादि, क्षेत्रविमोक्षस्तु यस्मिन् क्षेत्रे चारकादिके व्यवस्थितो विमुच्यते क्षेत्रदानाद्वा यस्मिन्या क्षेत्रे व्यावयेते स क्षेत्रविमीक्षा, कालविमोक्षस्तु चैत्यमहिमादिकेषु कालेवनाधातादिघोषणापादितो यावन्तं कालं मुच्यते यस्मिन्या काले व्याख्यायते सोऽभिधीयते इति गाथार्थः ॥ भावविमोक्षप्रतिपादनायाहदुविहो भावविमुक्खो देसविमुक्खो य सब्वमुक्खो य । देसविमुक्खा साहू सव्वविमुक्खा भवे सिद्धा ॥२६०॥
दीप अनुक्रम [२०९]
--
%
॥२६
॥
6
~2354