________________
आगम (०१)
[भाग-2] “आचार"मूलं ”-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [८], उद्देशक [१], मूलं [१९६...],नियुक्ति: [२५७] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१९६]
दीप अनुक्रम [२०९]
|| अणुपुब्बिविहारीणं भत्तपरिन्ना य इंगिणीमरणं । पायवगमणं च तहा अहिगारो होइ अट्ठमए ॥ २५७ ॥ ML अत्रायोद्देशकेऽयमर्थाधिकारः, तद्यथा-असमनुज्ञानाम-समनोज्ञानां वा प्रयाणां त्रिपश्यधिकानां प्रावादुकशतानां विमोक्षः-परित्यागः कार्यः, तथा तदाहारोपधिशय्यातदृष्टिपरित्यागश्च, पार्श्वस्थादयः पुनश्चारित्रतपोविनयेष्वसमनोज्ञाः, यथाच्छन्दास्तु पञ्चस्वपि ज्ञानाचारादिष्वसमनोज्ञास्तेषां यथायोगं त्यागो विधेय इति ।। द्वितीये तु अकल्पिकस्य-आधाकर्मादेविमोक्षः-परित्यागः कार्यो, यदिवाऽऽधाकर्मणा कश्चिन्निमन्त्रयेत् , ततः प्रतिषेधो विधेयः, तत्प्रतिषेधे च रुष्टस्य। सतः सिद्धान्तसद्भावः कथनीयो यथैवम्भूतं दानं तव मम च न गुणायेति २। तृतीये तूदेशकेऽयमाधिकारः, तद्यथागोचरगतस्य यतेः शीतादिना कम्पनादिकायामङ्गचेष्टायां सत्यां गृहस्थस्येयमारेका स्याद् यथा-ग्रामधम्मैरुद्वाध्यमानस्य शृङ्गारभावावेशादस्य यतेः कम्पनमित्येवं भाषिते आशङ्कितवा तदाशङ्काव्युदासाय यथावस्थितार्थकथना क्रियत इति३ । शेषेषु तूद्देशकेषु पञ्चस्वयमर्थाधिकारः, तद्यथा-उपकरणशरीराणां विमोक्षः-परित्यागस्तद्विषयः समासतो व्यासतस्तूच्यतेचतुथोंद्देशके त्वयमर्थाधिकारः, तद्यथा-वहानसम्-उद्बन्धनं गार्द्धपृष्ठम्-अपरमांसादिहृदयन्यासाद्द्धादिनाऽऽत्मव्यापा-1 दनम् , एतत् प्रकारद्वयं मरणं वाच्यं ।। पञ्चमके तुम्लानता भक्तपरिज्ञा च बोद्धव्या ५। षष्ठे त्वेकत्वम्-एकत्वभावना तथेगितमरणं च बोद्धव्यं । सप्तमकेषु प्रतिमा:-भिक्षुप्रतिमा मासादिका वाच्याः, तथा पादपोपगमनं च ज्ञातव्यमिति ७।अटमके त्वयमाधिकारः, स्तद्यथा-अनुपूर्वविहारिणां-प्रतिपालितदीर्घसंयमानां शास्त्रार्थग्रहणप्रतिपादनोत्तरकालमवसीदत्संयमाध्ययनाध्यापनक्रियाणां निष्पादितशिष्याणामुत्सर्गतः द्वादशसंवत्सरसंलेखनाक्रमसंलिखितदेहानां भक्तपरिज्ञेशित
Auditurary.com
~234~