________________
आगम
(०१)
प्रत
सूत्रांक
[१९३]
दीप
अनुक्रम [२०६]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [४], मूलं [१९३],निर्युक्ति: [२५२]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
श्रीआचा राङ्गवृत्तिः
(शी०)
उद्देशकः४
॥ २५३ ॥
न विद्यते विहिंसा येषां तेऽविहिंसाः, तथा शोभनं व्रतं येषां ते सुत्रताः, तथेन्द्रियदमाद्दान्ताः इत्येवं समुत्थाय, नागा-धुता० ए र्जुनीयास्तु पठन्ति - "समणा भविस्सामो अणगारा अकिंचणा अपुत्ता अपसूया अविहिंसगा सुब्वया दंता परदत्तभोइणो पावं कम्मं न करेस्सामो समुद्वाप" सुगमत्वान्न वित्रियते, इत्येवं समुत्थाय पूर्व पश्चात् 'पश्य' निभालय 'दीनान' | शृगालत्वविहारिणो वान्तं जिघृक्षून् पूर्वमुखतितान् संयमारोहणात् पश्चासापोदयात् प्रतिपतत इति, किमिति दीना ४ भवन्तीति दर्शयति-यतो 'वशार्त्ता' वशा इन्द्रियविषयकषायाणां तत आर्त्ता वशार्त्ताः तथाभूतानां च कर्मानुषङ्गः, तदुक्तम्--"सोइंदियवसट्टेणं भंते! कइ कम्मपगडीओ बंधइ ?, गोयमा ! आउअवज्जाओ सत्त कम्मपगडीओ जाव अणुपरिअट्टइ। कोहवसट्टेणं भंते! जीवे एवं तं चेव" एवं मानादिष्वपीति, तथा 'कातराः' परीषहोपसग्गपनिपाते सति विषयलोलुपा वा कातराः, के ते १-जनाः, किं कुर्वन्ति १- ते प्रतिभग्नाः सन्तः 'लूषका भवन्ति' व्रतानां विध्वंसका भवन्ति, को अष्टादशशीलाङ्गसहस्राणि धारयिष्यतीत्येवमभिसन्धाय द्रव्यलिङ्गं भावलिङ्गं वा परित्यज्य प्राणिनां विराधका भवन्ति । तेषां च पश्चात्कृतलिङ्गानां यत्स्वात्तदाह - 'अथ' आनन्तर्ये 'एकेषां भग्नप्रतिज्ञानामुत्प्रब्रजितानां तत्समनन्तरमेवान्तर्मुहूर्त्तेन वा पञ्चत्वापत्तिः स्याद्, एकेषां तु 'श्लोको' श्लाघारूपः पापको भवेत्, स्वपक्षात्परपक्षाद्वा महत्ययश:कीर्त्तिर्भवति, तद्यथा स एष पितृवनकाष्ठसमानो भोगाभिलाषी व्रजति तिष्ठति वा, नास्य विश्वसनीयं यतो नास्याकर्त्तव्यमस्तीति, उक्तं च- "परलोकविरुद्धानि कुर्वाणं दूरतस्त्यजेत् । आत्मानं यो न संधत्ते, सोऽन्यस्मै स्यात्कथं १ श्रोत्रेन्द्रियवशात भदन्त ! कति कर्मप्रकृती भाति ?, गौतम आयुर्वजाः सप्त कर्मप्रकृतीर्याथत् अनुपरिवर्तते। क्रोधवशान्त भदन्त जीवः एवमेव तद्.
Ja Eucation Internationa
For Parta Use Only
~ 221~
॥ २५३ ॥