________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [४], मूलं [१९३],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१९३]
वहितः॥१॥” इत्यादि, यदिवा सूत्रेणैवाश्चाध्यतां दर्शयितुमाह-सोऽयं श्रमणो भूत्वा विविध भ्रान्तो-भग्नः श्रमण
विभ्रान्तो, वीप्सयाऽत्यन्तजुगुप्सामाह, किंच-पश्यत यूयं कर्मसामर्थ्यम् 'एके' विश्रान्तभागधेयाः समन्वागतैरुधुक्तविहारिभिः सह वसन्तोऽप्यसमन्वागता:-शीतलविहारिणः, तथा 'नममानैः संयमानुष्ठानेन विनयवद्भिः 'अनममानान्' निपुणतया सावद्यानुष्ठायिनो, विरतैरविरता द्रव्यभूतैरद्रव्यभूताः पापकलङ्काङ्कितत्वादेवम्भूतैरपि साधुभिः सह वसन्तोऽपि, एवम्भूतान् 'अभिसमेत्य' ज्ञात्वा किं कर्त्तव्यमिति दर्शयति-पण्डितः' त्वं ज्ञातज्ञेयो 'मेधाची' मर्यादाव्यवस्थितो 'निष्ठितार्थः' विषयसुखनिष्पिपासो 'वीर' कर्मविदारणसहिष्णुर्भूत्वा 'आगमेन' सर्वज्ञप्रणीतोपदेशानुसारेण 'सदा' सर्वकालं परिकामयेरिति । इतिरधिकारपरिसमाप्ती, ब्रवीमीति पूर्ववद् ॥ धूताध्ययनस्य चतुर्थोद्देशकः परिसमाप्तः॥
-DD| उक्तश्चतुर्थोद्देशकः, साम्प्रतं पश्चम आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोदेशके कर्मविधूननार्थ गौरवत्रयविधूननाऽभिहिता, सा च कर्मविधूननोपसर्गविधूननामन्तरेण न सम्पूर्णभावमनुभवति, नापि सत्कारपुरस्कारात्मकसन्मानविधूननामन्तरेण गौरवत्रयविधूनना सम्पूर्णतामियादित्यत उपसर्गसन्मानविधूननार्थमिदमुपक्रम्यते, इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्
से गिहेसु वा गिहतरेसु वा गामेसु वा गामंतरेसु वा नगरेसु वा नगरंतरेसु वा जण
********
दीप
अनुक्रम [२०६]
*
SARERatunintamational
षष्ठं-अध्ययने पंचम-उद्देशक: 'उपसर्ग-सन्मान विधुनन' आरब्धः,
~222