________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [४], मूलं [१८९],नियुक्ति: [२५२] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्राक
[१८९]
दीप अनुक्रम
पणं कषायनिग्रहप्राधान्यख्यापनार्थ, सम्यक् ख्यायते-प्रकाश्यतेऽनयेति संख्या-प्रज्ञा तया 'रीयमाणाः' संयमानुष्ठाने पराक्रममाणाः सन्तः कस्यचिद्विश्रान्तभागधेयतया अशीला एत इत्येवमनुवदतोऽनु-पश्चाद्वदतः पृष्ठतो वदतोऽन्येन
वा मिथ्यादृष्ट्यादिना कुशीला इत्येवमुक्तेऽनुवदतः पावस्थादेः द्वितीयैषा 'मन्दस्य' अज्ञस्य 'बालता' मूर्खता, एक ताहै वत्खतश्चारित्रापगमः पुनरपरानुयुक्तविहारिणोऽपवदत इत्येषा द्वितीया बालता, यदिवा शीलवन्त एते उपशान्ता
वेत्येवमन्येनाभिहिते वैषां प्रचुरोपकरणानां शीलवत्तोपशान्तता वा इत्येवमनुवदतो हीनाचारस्य द्वितीया बालता भवतीति ॥ अपरे तु वीर्यान्तरायोदयात् स्वतोऽवसीदन्तोऽप्यपरसाधुप्रशंसान्विता यथावस्थितमाचारमावेदयेयुः, इत्येतद्दर्शयितुमाह
नियमाणा वेगे आयारगोयरमाइक्खंति, नाणब्भट्टा दसणलूसिणो (सू० १९०) एके-कर्मोदयात् संयमान्निवर्तमाना लिङ्गाद्वा, वाशब्दादनिवर्तमाना वा, यथावस्थितमाचारगोचरमाचक्षते, वयं तु कर्तुमसहिष्णव आचारस्त्वेवम्भूत इत्येवं वदतां तेषां द्वितीया वालता न भवत्येव, न पुनर्वदन्ति-एवंभूत एवाचारो योऽस्माभिरनुष्ठीयते, साम्प्रतं दुष्षमानुभावेन बलाद्यपगमान्मध्यभूतैव वर्तनी श्रेयसी नोत्सर्गावसर इति, उक्तं हि -"नात्यायतं न शिथिलं, यथा युञ्जीत सारथिः । तथा भद्रं वहन्त्यश्वा, योगः सर्वत्र पूजितः॥१॥" अपि च जो जत्थ होइ भग्गो, ओवासं सो परं अविंदतो । गंतु तत्थऽचयंतो, इमं पहाणंति घोसेति ॥१॥" इत्यादि । किम्भूताः
१ यो यन्त्र भवति भमोऽनकाशं सोऽपरमविन्दन् । गन्तुं तवासमर्थ इदं प्रधानमिति पोषयति ॥१॥
[२०२]
~216~