________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [६], उद्देशक [२], मूलं [१८२],नियुक्ति: [२५२] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [१८२]]
दीप अनुक्रम [१९५]
रक
मेण' परिपाट्या योगपद्येन वोदीर्णाननधिसहमानाः-परीषदर्भग्ना मोहपरवशतया पुरस्कृतदुर्गतयो मोक्षमार्ग परित्यजन्ति । भोगार्थं त्यक्तवतामपि पापोदयाद्यत्स्यात्तदाह-कामान् विरूपानपि 'ममायमाणस्स'त्ति स्वीकुर्वतो भोगाध्यवसायिनोऽन्तरायोदयात् 'इदानी तत्क्षणमेव प्रत्रज्यापरित्यागानन्तरमेव भोगप्राप्तिसमनन्तरमेव वा अन्तर्मुहूर्तेन वा कण्डरीकस्येवाहोरात्रेण वा ततोऽप्यूचं शरीरभेदो भवत्यपरिमाणाय, एवम्भूत आत्मना सार्द्ध, विवक्षितशरीरभेदो भवति येनानन्तेनापि कालेन पुनः पञ्चेन्द्रियत्वं न प्राप्नोति । एतदेवोपसञ्जिहीर्षराह-एवं' पूर्वोक्तप्रकारेण 'स' भोगाभिलाषी आन्तरायिकः कामैः-बहुप्रत्यपायैः न केवलमकेवलं तत्र भवा आकेवलिका:-सद्वन्द्वाः सप्रतिपक्षा इतियावत् असम्पूर्णा वा, तैः सद्भिरवतीर्णाः संसारं तान् वा द्वितीयाथें तृतीया, 'चः' समुच्चये, 'एत' इति भोगाभिलाषिणः, कामैरतृप्ता एव शरीरभेदमवाप्नुवन्तीति तात्सर्यार्थः । अपरे त्वासन्नतया मोक्षस्य कथञ्चित्कुतश्चित् कदाचिदवाप्य चरणपरिणामं प्रतिक्षणं लघुकर्मतया प्रवर्द्धमानाध्यवसायिनो भवन्तीति दर्शयितुमाह
अहेगे धम्ममायाय आयाणप्पभिइसु पणिहिए चरे, अप्पलीयमाणे दढे सव्वं गिद्धिं परिन्नाय, एस पणए महामुणी, अइअच्च सव्वओ संग न महं अथित्ति इय एगो अहं, अस्सि जयमाणे इत्थ विरए अणगारे सव्वओ मुंडे रीयंते, जे अचेले परिवुसिए संचिक्खइ ओमोयरियाए, से आकुटे वा हए वा लुचिए वा पलियं पकत्थ अ
~196~