________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [६], मूलं [१६७],नियुक्ति: [२४९] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[०१], अंग सूत्र-[१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक [१६७]
दीप अनुक्रम [१८०]]
सापरिणामलब्धात्मलाभानां तदतिरिक्तेश्वरादिकारणपरिकल्पनायामतिप्रसङ्गः स्यात् , तथा घटपटादीनां दण्डचक्रचीवरसलिलकुलालतुरीवेमशलाकाकुविन्दादिव्यापारानन्तरावाप्तात्मलाभानां तदनुपलब्धव्यापारेश्वरस्य कारणपरिकल्पनायां रासभादेरपि किं न स्यात् ।, तनुकरणादीनामप्यवन्ध्यस्वकृतकापादितं वैचित्र्यं, कर्मणोऽनुपलब्धेः कुत एतदिति चेत्, समानः पर्यनुयोगः, अपि च-तुल्ये मातापित्रादिके कारणेऽपत्यवैचित्र्यदर्शनात्तदधिकेन निमित्तेन भाव्यं, तच्चेश्वराभ्युपगमेऽप्यदृष्टमेवेष्टव्यं, नान्यथा सुखदुःखसुभगदुर्भगादि जगद्वैचित्र्यं स्यादिति। तथा साङ्ख्या एवमाहुः-यथा 'सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः, प्रकृतेमहांस्ततोऽहङ्कारः, तस्मादेकादशेन्द्रियाणि पश्च तन्मात्राणि, तन्मात्रेभ्यः पञ्चभूतानि, बुद्ध्यध्यवसितमर्थं पुरुषश्चेतयते, स चाकर्त्ता निर्गुणश्चेति, तथा प्रकृतिः करोति पुरुष उपभुते ततः कैवल्याव-13 स्थायां द्रष्टाऽस्मीति निवर्त्तते' इत्यादिकं युक्तिविकलत्वान्निरन्तराः सुहृदः प्रत्येष्यन्ति, तथाहि-प्रकृतेरचेतनत्वात् कुत आमोपकाराय क्रियाप्रवृत्तिः स्यात् ?, कुतो वा दृष्टेत्यात्मोपकाराय प्रवृत्तिर्न स्यात् ?, अचेतनायास्तद्विकल्पासम्भवात् , नित्यायाश्च प्रवृत्तिनिवृत्त्यभावात् , पुरुषस्याप्यकर्तृत्वे संसारोद्वेगमोक्षीत्सुक्यभोक्तृत्वायभावः स्यादिति, उक्कं च-"न विरक्तो न निर्विणो, न भीतो भवबन्धनात् । न मोक्षसुखकाही वा, पुरुषो निष्क्रियात्मकः॥१॥ का प्रनजति साख्यानां, निष्क्रिये क्षेत्रभोक्तरि । निष्क्रियत्वात्कथं वाऽस्य, क्षेत्रभोक्तृत्वमिप्यते ॥२॥” इति । तथा शौद्धोदनिशिष्यका यत्सत्तत्सर्वे क्षणिकमित्येवं व्यवस्थिताः, तत्रोत्तरम्, यदि निरन्ययो विनाशः स्यात् ततः प्रतिनियतः कार्यकारणभाव एव न स्यात्, एकसन्तानान्तर्गतत्वात्स्यादिति चेत्, अशिक्षितस्योल्लापः, तथाहि-न सन्ताभिव्यतिरेकेण कश्चित्सन्तानोऽस्ति,
~170~