________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [५], मूलं [१६५],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
45
प्रत सूत्रांक [१६५]]
AAKAR
दीप अनुक्रम [१७८]
ननु चारमनाऽनुसंवेदनमित्युक्त, संवेदनं च सातासातरूपं, तच्च यथा नैयायिकवैशेषिकाणामात्मनो भिन्नेन गुणभूतेनैकार्थसमवायिना ज्ञानेन भवति तथा भवतामप्याहोस्विदभिन्नेनात्मन इत्यस्य प्रतिवचनमाह
जे आया से विनाया जे विन्नाया से आया जेण वियाणइ से आया तं पडुच्च पडि
संखाए, एस आयावाई समियाए परियाए वियाहिए तिबेमि (सू० १६५) ॥ ५-५॥ य आत्मा नित्य उपयोगलक्षणः विज्ञाताऽप्यसावेब, न तु पुनस्तस्मादात्मनो भिन्नं ज्ञानं पदार्थसंवेदक, यश्च विज्ञाता |-पदार्थानां परिच्छेदक उपयोगः आत्माऽप्यसावेव, उपयोगलक्षणत्वाज्जीवस्य उपयोगस्य च ज्ञानात्मकत्वादिति । ज्ञाना
मनोरभेदाभिधानाद्वौद्धाभिमतं ज्ञानमेवैकं स्यादिति चेत्, तन्न, भेदाभावोऽत्र केवलं चिकीर्षितो नैक्यं, एतदेवैक्यं यो भेदाभाव इति चेत्, वार्तमेतत्, तथाहि-पटशुक्लत्वयो देनावस्थानाभावेऽपि नैकत्वापत्तिः, अत्रापि शुक्लत्वव्यतिरेकेण नापरः पटः कश्चिदष्यस्तीति चेद्, अशिक्षितस्योल्लापो, यतः शुक्लगुणविनाशे सर्वथा पटाभावापत्तिः स्यात्, तदात्मना विनष्ट एवेति चेत्, भवतु का नो हानिः, अनन्तधात्मकत्वाद्वस्तुनोऽपरमृद्वादिधर्मसद्भावे तद्धर्मविनाशेऽप्यविनष्ट एव, इत्येवमात्मनोऽपि प्रत्युत्पन्नज्ञानात्मकतया विनाशेऽप्यपरामूर्तत्वासख्येयप्रदेशताऽगुरुलध्वादिधर्मसद्भावादविनाश एवेत्यले प्रसङ्गेन । ननु च व आत्मा स विज्ञातेत्यत्र तृजन्तेन कर्तुरभिधानादात्मनश्च कर्तृत्वात्ततश्च य एवात्मा स एव विज्ञातेत्यत्र विप्रतिपत्त्यभावो, येन चासौ जानाति तद्भिन्नमपि स्यात्, तथाहि-तत्करणं क्रिया वा भवेद्?, यदि
~166~