________________
आगम
(०१)
प्रत
सूत्रांक
[१६४]
दीप
अनुक्रम
[१७७]
[भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [ ५ ], मूलं [१६४],निर्युक्तिः [२४९]
पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः
श्रीआचाराङ्गवृत्तिः (शी०)
॥ २२५ ॥
रवान् एवमसावपि यं हन्तव्यमिति मन्यसे, यथा च भवतो हननोद्यतं दृष्ट्वा दुःखमुत्पद्यते एवमन्येषामपि तद्दुःखापोंदनाच्च किल्बिषानुषङ्गः, इदमुक्तं भवति - नात्रान्तरात्मनः आकाशदेशस्य व्यापादनेन हिंसा, अपि तु शरीरात्मनः, तस्य | हि यत्र कचित्स्वाधारं शरीरं नितरां दयितं तद्वियोजीकरणमेव हिंसेति, उक्तं च- “पञ्चेन्द्रियाणि त्रिविधं बलं च, उच्छासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिरुतास्तेषां वियोजी करणं तु हिंसा ॥ १ ॥" न च संसारस्थस्य सर्वथा अमूर्त्तत्वावाप्तिः, येनाकाशस्येव विकारो न स्यात्, सर्वत्रैव च प्राण्युपमर्दचिकीर्षितायामात्मतुल्यता भावयितव्येत्येतदुत्तरसूत्रैर्दर्शयितुमाह-त्वमपि नाम स एव यं प्रेषणादिना आज्ञापयितव्यमिति मन्यसे तथा त्वमपि नाम स एव यं परितापयितव्यमिति मन्यसे, एवं यं परिगृहीतव्यमिति मन्यसे यमपद्रावयितव्यमिति मन्यसे असौ श्वमेव, यथा भ वतोऽनिष्टापादनेन दुःखमुत्यद्यते एवमस्यापीत्यर्थः, यदिवा यं कार्यं हन्तव्यादितयाऽध्यवस्यसि तत्रानेकशो भवतोऽपि भावात्वमेवासी, एवं मृषावादादावप्यायोज्यम् । यदि नाम हन्तव्यघातकयोरुक्तक्रमेणैक्यं ततः किमित्याह- 'अञ्जु'रिति ऋजुः प्रगुणः साधुरितियावत् चशब्दोऽवधारणे, एतस्य हन्तव्यघात के कत्वस्य प्रतिबोधः प्रतिबुद्धमेतत्प्रतिबुद्धं तेन जीवितुं शीलमस्येत्येतत्प्रतिबुद्धजीवी साधुरेव तत्परिज्ञानेन जीवति नापर इत्युक्तं भवति । यदि नामैवं ततः किमित्याह - 'तस्माद्' हन्यमानस्यात्मन इव महद्दुःखमुखद्यते तस्मादात्मौपम्यादन्येषां जन्तूनां न हन्ता स्यात्, नाप्यपरैर्घातयेत् न च नतोऽनुमन्येत, किं च संवेदनम् - अनुभवनं अनु-पश्चात्संवेदनं केन ? - आत्मना यत्परेषां मोहोदयाद्धननादिना दुःखोत्पादनं विधीयते तत्पश्चादात्मना संवेद्यमित्याकलय्य यत्किमपि हन्तव्यमिति चिकीर्षितं तन्नाभिप्रार्थयेत्-नाभिल
For Pasta Lise Only
~165~
लोक० ५ उद्देशकः५
।। २२५ ।।
wor