________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [५], मूलं [१६३],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
1
प्रत सूत्रांक [१६]
दीप अनुक्रम [१७६]
साधयेत् , सर्वधर्मप्रसाधकस्य हेतोरसम्भवादिति २ । पुनरपि विचित्रभावनामाह- कस्यचित् मिथ्यात्वलेशानुविद्धस्य कथं । पौगलिकः शब्द इत्यादिकमसम्यगिति मन्यमानस्य 'एकदेति मिथ्यात्वपरमाणूपशमतया शताविचिकित्साद्यभावे गुर्वाधुपदेशतः सम्यगिति भवति, यदि हि पौगलिकः शब्दो न स्यात् ततस्तत्कृतावनुग्रहोपघाती श्रवणेन्द्रियस्य न स्याताम् , अमूर्त्तत्वादाकाशवदित्यादिकं सम्यग् भवति३ । कस्यचित्त्वागमापरिमिलितमतेः कथमेकेनैव समयेन परमाणोर्लोकान्तगमनमित्यादिकमसम्यगिति मन्यमानस्यैकदेति-कुहेतुवितर्काविर्भावावसरे नितरामसम्यगेव भवति, तथाहि-चतुर्दशरज्वात्मकस्य लोकस्याद्यन्ताकाशप्रदेशयोः समयाभेदतया यौगपद्यसंस्पर्शात् तावन्मात्रता परमाणोः स्यात्, प्रदेशयोर्लोकान्तद्वयगतयोर्वैक्यमित्यादिकमसम्यगिति भवति, न त्वसौ स्वाग्रहाविष्ट एतद्भावयति, यथा-विनसापरिणामेन शीघ-14 |गतित्वात् परमाणोरेकसमयेनासख्येयप्रदेशातिक्रमणं, यथा हि अङ्गलिद्रव्यमेकसमयेनासल्येयानप्याकाशप्रदेशानतिलङ्यति, एतदेव कुत इति चेत्, न हि दृष्टेऽनुपपन्न नाम, न च सकलप्रमाणप्रष्ठप्रत्यक्षसिद्धेऽर्थेऽनुमानमन्वेष्टव्यं, तथाहियधनेकप्रदेशातिक्रमणं सामयिकं न भवेत् ततोऽङ्गलमात्रमपि क्षेत्रमसख्ययसमयातिकमणीयं स्यात्, तथा च सति |दृष्टेष्टबाधाऽऽपद्यतेति यत्किश्चिदेतत् ४ । साम्प्रतं भङ्गकोपसंहारद्वारेण परमार्थमाविर्भावयन्नाह सम्यगित्येवं मन्यमानस्य शङ्काविचिकित्सादिरहितस्य सतस्तद्वस्तु यत्नेन तथारूपतयैव भावितं तत्सम्यग्वा स्यादसम्यग्वा, तथापि तस्य तत्र सम्यगुप्रेक्षया-पर्यालोचनया सम्यगेव भवति, ईर्यापथोपयुक्तस्य क्वचित्प्राण्युपमर्दवत् ५। साम्प्रतमेतद्विपर्ययमाह-असम्यगिति |किश्चिद्वस्तु मन्यमानस्य शङ्का स्यादग्दर्शितया छद्मस्थस्य सतस्तद्वस्तु सम्यग्वा स्यादसम्यग्वा, तस्य तदसम्यगेवोत्ने
~162