SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१६३ ] दीप अनुक्रम [१७६ ] [भाग-2] “आचार” मूलं - अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) 39 श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [ ५ ], मूलं [१६३],निर्युक्तिः [२४९] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः श्रीआचारानवृत्तिः (शी०) ॥ २२३ ॥ श्रद्धा- धर्मेच्छा सा विद्यते यस्यासौ श्रद्धावांस्तस्य 'समनुज्ञस्य' संविग्नविहारिभिर्भावितस्य संविग्नादिभिर्वा गुणैः प्रत्रज्यार्हस्य 'संप्रव्रजतः' सम्यक्प्रव्रज्यामभ्युपगच्छतो विचिकित्सा- शङ्का भवेत्, तत्रैतस्य सम्यग्जीवादिपदार्थावधारणाशतस्येदमुपदेष्टव्यम्, यथा-तदेव सत्यं निःशङ्कं यज्जिनैः प्रवेदितमिति, तदेवं प्रव्रज्यावसरे तदेव निःशङ्कं यज्जिनैः प्रवे | दितमित्येवं यथोपदेशं प्रवर्त्तमानस्य प्रवर्द्धमानकण्डकस्य सत उत्तरकालमपि तदधिकता तत्समता तन्यूनता तदभावो वा स्यादित्येवंरूपां विचित्र परिणामतां दर्शयितुमाह-तस्य श्रद्धावतः समनुज्ञस्य संप्रव्रजतस्तदेव निःशङ्कं यज्जिनः प्रवेदितमित्येतत्सम्यगित्येवं मन्यमानस्य 'एकदा' इत्युत्तरकालमपि शङ्काकाङ्गाविचिकित्सा दिरहिततया सम्यगेव भवति-न तीर्थकरभाषिते सङ्कायुपद्यत इति १ । कस्यचित्तु प्रब्रज्यावसरे श्रद्धानुसारितया सम्यगिति मन्यमानस्य तदुत्तरकालमधीतान्वीक्षिकीकस्य दुर्गृहीतहेतुदृष्टान्तलेशस्य ज्ञेयगहनताव्याकुलितमतेः 'एकदे'ति मिथ्यात्वांशोदयेऽसम्यगिति भवति, तथाहि असौ सर्वनय समूहाभिप्रायतया अनन्तधर्माध्यासितवस्तुप्रसाधने सति मोहादेकनयाभिप्रायेणैकांशसाधनाय प्रक्रमते, यदि नित्यं कथमनित्यमनित्यं चेत्कथं मित्यमिति, परस्परपरिहारलक्षणतयाऽनयोरवस्थानात्, तथाहि अप्रच्युतानुपन्नस्थिरैकस्वभावं हि नित्यम् अतोऽन्यत्प्रतिक्षणविशरारुरूपमनित्यमित्येवमादिकमसम्यग्भावमुपयाति न पुनर्वि वेचयति यथा अनन्तधर्म्माध्यासितं वस्तु सर्वनय समूहात्मकं च दर्शनमतिगहनं मन्दधियां श्रद्धागम्यमेव न हेतुक्षोभ्यमिति, उक्तं च- "सर्वैर्नयैर्नियतनैगमसङ्ग्रहाद्यैरेकैकशो विहिततीर्थिकशासनैर्यत् । निष्ठां गतं बहुविधैर्गमपर्ययैस्ते, श्रद्धेयमेव वचनं न तु हेतुगम्यम् ॥ १ ॥” इत्यादि, यतो हेतुः प्रवर्त्तमानः एकनयाभिप्रायेण प्रवर्त्तते, एकं च धर्म्म For Park Use Only ~161~ लोक० ५ उद्देशका ॥ २२३ ॥
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy