SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१५९] दीप अनुक्रम [१७२] [भाग-2] “आचार”मूलं ” – अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [४], मूलं [१५९],निर्युक्तिः [२४९] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित ..आगमसूत्र -[०१], अंग सूत्र -[०१] "आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्तिः श्रीआचाराङ्गवृत्तिः (शी०) ॥ २१९ ॥ त्रासङ्गः- संबन्धस्तत्करा भवन्ति, यदिवा कलह-क्रोधः आसङ्गो राग इत्यतो रागद्वेषकारिणो भवन्ति, यद्येवं ततः किं कुर्यादित्याह ऐहिकामुष्मिकापायतः स्त्रीसङ्गप्रत्युपेक्षया 'आगमेत्त 'ति ज्ञात्वा आज्ञापयेदात्मानमनासेवनयेति, इतिरधिकारपरिसमाप्ती, ब्रवीम्यहं तीर्थकरवचनानुसारेण दुःखं च ताः परिहर्तुमिति पुनरपि तत्परिहरणोपायमाह - 'स' ४ स्त्रीसङ्गपरित्यागी स्त्रीनेपथ्यकथां शृङ्गारकथां वा नो कुर्यात् एवं च तास्त्यक्ता भवन्ति, तथा तासां नरकचीथीनां स्वर्गा| पवर्गमार्गार्गलानामङ्गप्रत्यङ्गादिकं न पश्येत् यतस्तन्निरीक्ष्यमाणं महतेऽनर्थाय भवतीति उक्तं च- "सन्मार्गे तावदास्ते प्रभवति पुरुषस्ताव देवेन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । धूचापाकृष्टमुक्ताः श्रवणपथजुषो नीलपक्ष्माण एते, यावलीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति ||१||” तथा-ताभिर्नरकविस्रम्भभूमिभिः सार्द्धं न सम्प्रसारणं पर्यालोचनमेकान्ते निजस्वस्रादिभिरपि कुर्यादिति, उक्तं च - "मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । चलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥ १ ॥ इत्येवमादि, तथा-न तासु स्वार्थपरासु ममत्वं कुर्यात्, तथा - कृता - अनुष्ठिता तदुपकारिणी मण्डनादिका क्रिया येन स कृतक्रिय इत्येवम्भूतो न भूयात्, न स्त्रीणां वैयावृत्त्यं कुर्यात्, काययोगनिरोध इति भावः, तथा तथैताः शुभानुष्ठानपरिपन्थिनीर्न वाङ्मात्रेणा प्यालपेदिति वाग्योगनिरोधः, तथा-आत्मन्यधि अध्यात्मं- मनस्तेन संवृत्तोऽध्यात्मसंवृत्तः - स्त्रीभोगादत्तमनाः सूत्रार्थोपयुक्तनिरुद्धमनोयोगः, एवम्भूतश्च ४ ॥ २१९ ॥ किमपरं कुर्यादित्याह - परि:- समन्तात् वर्जयेत् परिहरेत् 'सदा' सर्वकालं 'पाप' किल्विषं तदुपादानं वा कर्म्म, उपसं Educatuny Internationa For Penal Use Only लोक० ५ उद्देश ४ ~153~
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy