________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [४], मूलं [१५९],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक
[१५९]
दीप अनुक्रम [१७२
दर्शयति--अप्यवमौदर्यं कुर्याद्, यदि ह्यन्तप्रान्ताशिनोऽपि न मोहोपशमः स्यात् ततस्तदपि वल्लचनकादिना द्वात्रिंश-11
कवलमात्र गृह्णीयात् , तेनाप्यनुपशमे कायोत्सर्गादिना कायक्लेशं कुर्यादित्येतदर्शयति-अप्यूर्व स्थानं तिष्ठेत् , शीदातोष्णादी कायोत्सर्गेणातापनां कुर्यात् , तेनाप्यनुपशमे ग्रामानुग्राममपि विहरेत् , निष्कारणे विहारो निषिद्धो मोहोपशमनार्थं तु कुर्यात् , किं बहुना?, येन येनोपायेन विषयेच्छा निवर्त्तते तत्तत्कुर्यात् , पर्यन्ते आहारमपि व्यवच्छिन्द्याद्, अपि पातं विदध्यात् अप्युद्धन्धनं कुर्यात् न च स्त्रीषु मनः कुर्यादित्याह च-अपिः समुच्चये, स्त्रीषु यन्मनः प्रवृत्तं तत् परित्यजेत् , तत्परित्यागे हि कामा द्विरूपा अपि दूरत एव परित्यक्ता भवन्तीति, उक्तं च-"काम! जानामि ते रूपं, संकल्पास्किल जायसे । न त्वां संकल्पयिष्यामि, ततो मे न भविष्यसि ॥१॥" किं पुनः कारणं स्त्रीषु मनो न विधेय-12 मित्याह-स्त्रीसङ्गप्रवृत्तानामपरमार्थदृशां 'पूर्व प्रथममेव तत्सङ्गाविच्छेदार्थमर्थोपार्जनप्रवृत्तस्य कृषिवाणिज्यादिक्रियाः ६ कुर्वतोऽगणितक्षुत्पिपासाशीतोष्णादिपरीषहस्यैहिकदुःखरूपा दण्डाः, ते च खीसम्भोगात्प्रथममेव क्रियन्त इति पूर्वमित्युक्तं, पश्चाच्च विषयनिमित्तजनितकर्मविपाकापादितनरकादिदुःखविशेषाः स्पर्शा भवन्ति, यदिवा ख्याद्यकार्यप्रवृत्तस्य पूर्व दण्डपाताः पश्चाद्धस्तपादच्छेदादिकाः स्पर्शा भवन्ति, यदिवा पूर्व स्पर्शाः पश्चाद्दण्डपाता इति, अथवा पूर्व दण्डाः| ताडनादिकाः पश्चात्स्पर्शाः-सम्बाधनालिङ्गनचुम्बनादिकाः, तद्यथा-वन्द्यानीतावरुद्धराजकुमारीगवाक्षक्षिप्तपतदावील
ग्रहणाद्राजपुरुषावलोकनताडनेन मूछितराजकुमारीतद्दर्शनतो वणिगिन्द्रदत्तस्याग्रतो दण्डाः पश्चात्पर्शा इति, पूर्व वा |सुखादिस्पर्शाः पश्चाद्दण्डा ललिताङ्गकस्येवान्येषां चोपपतीनामिति । किं च-इत्येते स्त्रीसम्बन्धाः कलहः-सङ्ग्रामस्त
~152