________________
आगम (०१)
[भाग-2] “आचार"मूलं "-अंगसूत्र-१ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [१.], अध्ययन [५], उद्देशक [३], मूलं [१५१],नियुक्ति: [२४९] पूज्य आगमोद्धारकरी संशोधित मुनि दीपरत्नसागरेण पुन: संकलित..आगमसूत्र-[१], अंग सूत्र-०१] “आचार" "मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत
सूत्रांक [१५१]
दीप अनुक्रम [१६४]
वन्तो भवन्ति, यदिवैतेष्वेव पटूसु जीवनिकायेषु ममत्वाभावादपरिग्रहा भवन्ति । स्यात्-कथमपरिग्रहभावः स्यादित्याह-'सोचा' इत्यादि 'वईत्ति सुव्यत्ययेन द्वितीयार्थे प्रथमाऽतो वाचं-तीर्थकराज्ञामागमरूपां 'श्रुत्वा' आकये। 'मेधावी' मर्यादाव्यवस्थितः सश्रुतिको हेयोपादेयपरिहारप्रवृत्तिज्ञः, तथा 'पण्डितानां' गणधराचार्यादीनां विधिनियमात्मक वचनं निशम्य सचित्ताचित्तपरिग्रहपरित्यागादपरिग्रहो भवति । स्यादेतत्-कदा पुनरुत्पन्ननिरावरणज्ञानानां तीर्थकृतां वाग्योगो भवति येनासावाकर्ण्यते ?, उच्यते, धर्मकथाऽवसरे, किम्भूतस्तैः पुनर्धर्मः प्रवेदित इत्यारेकापनोदार्थमाह-'समिय'त्ति 'समता' समशत्रुमित्रता तयाऽऽयर्द्धर्मः प्रवेदित इति, उक्तं च "जो चंदणेण बाहुं आलिंपइ वासिणा व तच्छेति । संथुणइ जो अजिंदति महेसिणो तत्थ समभावा ॥१॥" यदिवाऽऽर्येषु-देशभाषाचरित्राऽऽर्येषु समतया भगवता धर्मः प्रवेदितः, तथा चोक्तम्-"जहा पुण्णस्स कथइ तहा तुच्छस्स कत्थई"त्यादि, अथवा शमिनो। भावः शमिता तया सर्वहेयधारातीयवर्तिभिः आयेंः प्रकर्षणादौ वा धर्मों वेदितः प्रवेदितः, इन्द्रियनोइन्द्रियोपशमेन तीर्थकृद्भिर्द्धर्मः प्रज्ञापित इतियावत्। स्याद्-अन्यैरपि स्वाभिप्रायेण धर्माः प्रवेदिता एवेत्यतस्तव्युदासाथै भगवानेवाह'जहेत्थे'त्यादि, सदेवमनुजायां पर्षदि भगवानेवमाह-यथाऽत्र मया ज्ञानादिको मोक्षसन्धिः 'झोसिओ'त्ति सेवित इति, यदिवा 'अत्र' अस्मिन् ज्ञानदर्शनचारित्रात्मके मोक्षमार्गे समभावात्मके इन्द्रियनोइन्द्रियोपशमरूपे मया मुमुक्षुणा स्वत एव सन्धान सन्धिः-कर्मसन्ततिः सन्धीयत इति वा भवानवान्तरमनेनेति सन्धिः-अष्टप्रकारकर्मसन्ततिरूपः स
यचन्दनेन बार मालिम्पति वास्या वा तक्ष्णोति । संस्तीति यश्च निन्दति महर्षयतत्र समभावाः ॥ १॥
For P
OW
~132~