SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ आगम (०१) प्रत सूत्रांक [१४९ ] दीप अनुक्रम [१६२ ] श्रुतस्कंध [१.], अध्ययन [ ५ ], उद्देशक [२], मूलं [१४९],निर्युक्तिः [२४९] पूज्य आगमोद्धारकश्री संशोधित मुनि दीपरत्नसागरेण पुनः संकलित.. आगमसूत्र [०१], अंग सूत्र [०१] "आचार" "मूलं एवं शिलांकाचार्य कृत् वृत्तिः श्रीआचाराङ्गवृत्तिः (शी०) ॥ २०७ ॥ 29 [भाग-2] “आचार”मूलं - अंगसूत्र - १ (मूलं + निर्युक्तिः+वृत्तिः) चित्तवद्वेति । एतेन च परिग्रहेण परिग्रहवन्तः सन्त एतेष्वेव परिग्रहवत्सु गृहस्थेष्वन्तर्वर्त्तिनो प्रतिनोऽपि स्युः, यदि वैतेष्वेव पट्सु जीवनिकायेषु विषयभूतेष्वल्पादिषु वा द्रव्येषु मूर्च्छा कुर्व्वन्तः परिग्रहवन्तो भवन्ति, तथा चाविरतो विरतिवादं वदझल्पादपि परिग्रहात् परिग्रहवान् भवति, एवं शेपेष्वपि व्रतेष्वायोज्यम्, एकदेशापराधादपि सर्वापराधितासम्भवः, अनिवारितास्रवत्वात् । यद्येवमस्पेनापि परिग्रहेण परिग्रहवत्त्वमतः पाणिपुटभोजिनो दिगम्बराः सर जस्कोटिकादयोऽपरिग्रहाः स्युः तेषां तदभावात्, नैतदस्ति, तदभावादित्यसिद्धो हेतुः तथाहि - सरजस्कानामरथ्यादि| परिग्रहाद्घोटिकानामपि पिच्छिका दिपरिग्रहाद् अन्त (न्तत ) च शरीराहारादिपरिग्रहसद्भावात्, धर्मोपष्टम्भकत्वाददोष इति चेद् तद् इतरत्रापि समानं, किं दिगम्बराग्रहग्रहेणेति । एतच्चाल्पादिपरिग्रहेण परिग्रहवत्त्वमपरिग्रहाभिमानिनां चाहारशरीरादिकं महतेऽनर्थायेति दर्शयन्नाह - 'एतदेवे' त्यादि, एतदेव अल्पबहुत्वादिपरिग्रहेण परिग्रहवत्त्वमेकेषां परिग्रहवतां नरकादिगमन हेतुत्वात् सर्वस्थाविश्वासकारणाद्वा महाभयं भवति, प्रकृतिरियं परिग्रहस्य, यदुत-तद्वान् सर्व्वस्माञ्च कति, | यदिवैतदेव शरीराहारादिकमपरस्यात्पस्यापि पात्रत्वक्त्राणादेर्द्धम्मोपकरणस्याभावाद् गृहिगृहे सम्यगुपायाभावादविधिनाऽशुद्धमाहारादिकं भुञ्जानस्य कर्मबन्धजनितमहाभयहेतुत्वान्महाभयं तथैतद्धर्मशरीरं समस्ताच्छादनाभावाद्वीभत्सं परेषां महाभयं तन्निरवद्यविधिपालनाभावाच्च महाभयमिति । यतः परिग्रहो महाभयमतोऽपदिश्यते— 'लोगं' इत्यादि, 'लोकस्य' असंयतलोकस्य 'वित्तं' द्रव्यमल्पादिविशेषणविशिष्टं चशब्दः पुनः शब्दार्थे णमिति वाक्यालङ्कारे, लोकवित्तं लोकवृत्तं वा आहार भय मैथुनपरिमहोत्कटसं ज्ञात्मकं महते भयाय पुनरुत्प्रेक्ष्य-ज्ञात्वा ज्ञपरिज्ञया प्रत्याख्यानपरि Eucation International For Praise Only ~129~ लोक० ५ उद्देशकः २ ॥ २०७ ॥ wor
SR No.035002
Book TitleSavruttik Aagam Sootraani 1 Part 02 Aachaar Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages586
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_acharang
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy